SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ PRECOG- P अमूल्यं कङ्कणं दत्त्वाऽस्याः प्रातर्निरगागृहात् ॥१॥ द्वितीयं राजा सौधद्वारे प्रकीलके मुक्त्वा ततो निर्गतो बही रहो वनेऽस्थात् । ततः प्रातर्गुरुर्नृपसभां गत्वा कन्यकुजप्रस्थानाय नृपमापपृच्छे । तेनोक्तम्-प्रतिज्ञा किं विस्मृता ? गुरुणोक्तम्-सा पूर्णा, कथमिति राज्ञोक्ते आमागमादिस्वरूपं यथास्थं जातमवदत् । तावद्वारवध्वा आमनामाङ्कितं कङ्कणं राज्ञोऽग्रे मुक्तं, द्वितीयं च द्वारपालेन । ततो जातप्रत्ययं राजानमापृच्छय कन्यकुबं प्रति गुरुः प्रतस्थे। श्रीआमनृपेण सह गोपालगिरिमापत् । तत्र कदाचिच्छास्त्रगोठ्या कदाचिद्धर्मगोष्ठ्या समयो याति । श्रीबप्पभट्टिः साम्ना श्रीआमनृपप्रतिवोधाय बहूनुपायानकरोत् परं नाबुध्यत धर्मम् । अन्यदा तत्र गायनवृन्द सुस्वरमाययौ । तत्रैका मातङ्गी राजानं रूपेण स्वरेण चरञ्जयामासाराजा तद्रूपमोहितो बहिरावासमचीकरत्। उवाच च-वर्क पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः,कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः। वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा, ताकिं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः !॥१॥ जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णो, दूरे शोभा वपुषि निहिता पङ्कशङ्का तनोति । विश्वप्रार्थ्यः सकलसुरभिद्रव्यदपिहारी, नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः ॥२॥ सूरिणा चिन्तितम्-अहो ! महतामपि कीदृग्मतिविपर्यासः । भस्त्रा काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी, सा संस्कारशतैः क्षणार्द्धमधुरां बाह्यामुपैति द्युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधिया, श्लिष्यन्ति स्रवते नमन्ति च पुरः कस्यात्र पूत्कुर्महे ॥१॥ उत्थिता सभा, त्रिभिर्दिनैर्भूपेन पूर्वहिः सौधं कारितं, मातङ्गीसहितोऽत्र वत्स्यामीति धिया । तदवगतं काबप्पभट्टिगुरुणा, ततो माऽसौ कुकर्मणा नरकं यासीदिति कृपया गुरुणा निष्पद्यमानसौधभारपट्टे निशि खटिकया प्रति ருரு இருருருருருருரு OOOOOO Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy