________________
00000000000000000
का लिखित्वा व्यहार्षीत् । तच्चेदम्--यामः स्वस्ति तवास्तु रोहणगिरे ! मत्तः स्थितिप्रच्युता, वर्तिष्यन्त इमे कथं कथमिति
स्वप्मेऽपि मैवं कृथाः । श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा, के शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति | नः॥१॥श्रीगुरुगोंडदेशं प्राप । तत्र धर्मभूपः, तदाग्रहाद्यावत्श्रीआमभूपः स्वयमाकारणाय नायाति तावन्न विहार्यमिति । प्रतिज्ञाय स्थिताः । अन्यदा श्रीआमनृपो राजपाटिकायै गतः । क्वचित्कृष्णसर्प दृष्ट्वा मुखे सुदृढं तं गृहीत्वा मुष्टिमध्ये कृत्वा बाहुवस्त्रेणाच्छाद्य च "शस्त्रं शास्त्रं कृषिविद्या, अन्यो यो येन जीवतीति" समस्यामप्राक्षीन्न कोऽपि भूपाभिप्रायेण पूरयति । तदा श्रीगुरुं भृशमस्मार्षीत् । ततः पटहो “य एतां ममाभिप्रायेण पूरयेत्तस्य स्वर्णटङ्कलक्षमर्पये" इत्याद्यवा द्यत । द्यूतकारेण गौडदेशे गत्वा श्रीगुरून् पृष्ट्वाऽपूरि “सुगृहीतं च कर्तव्यं, कृष्णसर्पमुखं यथा" ॥१॥ केनाऽपूरीति निर्बन्धपूर्व राज्ञा प्रश्ने गुरुस्वरूपं चाख्यायीत्यादि बहुविस्तरार्थिना एतत्प्रबन्धादि विलोक्यम् । ततोऽनुतापपरः प्रेषीत्प्रधानान् , काव्यानि च श्रीबप्पभट्टिगुरून् प्रति, तथाहि--छाया कारणि सिरिधरिअ, पच्च वि भूमि पडंति । पत्तह एहु पत्तत्तणं, वरतरु काई करंति ॥१॥न गङ्गा गाङ्गेयं सुयुवतिकपोलस्थलगतं, न वा शुक्तिं मुक्तामणिरुरसिजास्वादरसिकः । न कोटीरारूढः स्मरति च सवित्री मणिचय-स्ततो मन्ये लोकं स्वसुखनिरतं स्नेहविरतम् ॥२॥ इत्यादीनि प्रधानेभ्यो गुरुराकण्याह-आमनृपस्येमा गाथाः श्राव्याः, तथाहि--विझेण विणावि गया, नरिंदभवणेस हंति गारविआ। विंझो न होइ अगओ, गएहिबहुएहिं वि गएहिं ॥१॥ माणस विण सुहाई, जह य न लब्भन्ति रायहंसेहिं । न य तस्स वि तेहि विणा, तीरुच्छंगा न सोहन्ति ॥२॥ परिसेसिअहंसउलंपि, माणसं माणसं न संदेहो। अन्नत्थ
000000000000000000000
Jain Education Inte
For Private & Personel Use Only
Mainelibrary.org