________________
I
be ) Tin
GGES
Tức T
वेच्छयाऽऽगमिष्यामीति वरं दत्त्वा तिरोऽधात, अन्यदा वर्षति मेघे देवकुलस्थस्य बप्पभट्टेः कोऽपि देवोपमः पुमान् समगस्त प्रशस्तिपट्टिकायां च काव्यान्यवाचयत बप्पभट्टिना व्याख्यापयच्च, शान्ते वर्षे बप्पभट्टिना सहोपाश्रयं प्राप, गुरुभिः कस्य पुत्रोऽसीति पृष्टः प्रोचे, सूर्यवंशीयचन्द्रगुप्तभूपवंशालङ्कारस्य कन्यकुब्जदेशाधिपयशोवर्मभूपतेः सुतोऽई, पित्रा शिक्षावशात् किञ्चिदुक्तः कोपादिहागमम्, अलेखीच्च खटिकया स्वं नाम आमेति, ततो गुरुणोक्तं-वत्स! निश्चिन्तो वप्पभट्टिसुहृदा समं शास्त्राणि गृहाण, ततस्तत्र तिष्ठतस्तस्य वप्पभट्टिना समं दृढा मैत्र्यभवत् । अन्यदा बप्पभट्टिप्रोचे सः-राज्यं चेलप्स्ये तदा तुभ्यं दास्ये, कियता कालेन च तजनकेन पट्टाभिषेककृते प्रधानाः प्रहिताः, बप्पभट्टिमापृच्छ्य तैः सह कन्यकुब्जे प्राप्तः, पित्रा राज्येऽभ्यषिच्यत । लक्षद्वितयमश्वानां, चतुर्दश शतानि च। रथानां हस्तिनां पत्तिकोटी राज्येऽस्य जज्ञिरे॥१॥ अन्यदा आमराजः स्वसुहृद्धप्पभट्टिमाकारयितुं स्वप्रधानान् प्रेषीत् । तेषामत्यादराद्गुरुस्तं प्रेषितवान् । स च धर्मोन्नत्यै आमपुरं गतः । तदागमनहृष्टः स सर्वाडम्बरेण संमुखमागत्य प्रवेशे गजारोहणप्रार्थनां चक्रे, बप्पभट्टिः प्राह-शमिनां गजारोहणं
विरुध्यते । राजाऽऽह-पूर्व मया वो राज्यदानं प्रतिपन्नं, राज्यस्याचं चिरंगजः, । बप्पभट्टिराह-सत्यमेवं त्वत्प्रतिज्ञा पूर्यते, लापरं सर्वसङ्गमुचां नः प्रतिज्ञा हीयते । चमत्कृतोराजा। प्रवेशानन्तरं सौधान्तः क्षमाभुजां सिंहासनं मण्डितम्, तदवसरे
बप्पभट्टिराह-अस्माकं सूरिपदे जाते सिंहासनमासनं कल्प्यं, ततो राजा खिन्न आसनान्तरममण्डयत् । दिनानि कियन्ति तत्र तमवस्थाप्याचार्यपदार्थी राजा प्रधानैः सह गुरुपार्श्वे प्रेषीत् । प्रधाना गुरुं विज्ञपयन्ति-चन्द्रं विना चकोर इव वप्पभट्टि विनाऽस्मत्स्वामी रतिं न लभते, अतोऽस्याचार्यपदं दत्त्वा पश्चादिमं प्रेषयन्तु, यथास्योपदेशाद्राजा धर्मोन्नति
in TTTT
FOCCSE-
U
Jain Education
!
For Private & Personel Use Only
Pujainelibrary.org