________________
मुनिसुन्दर परं तेऽपि यथोचितबहुमानादि यथावसरमपेक्षन्ते, अबहुमानिताः पुनरुदासतेऽपीति । यथा श्रीबप्पभट्टसूरयस्तथाहि-गुर्ज
उपदेशर सू० वि०कारदेशे पाटलाख्ये नगरे श्रीसिद्धसेनसूरिः, सोऽन्यदा श्रीवीरं नन्तुं मोढेरे प्राप्तो निशि स्वप्नं ददर्श । यथा-"उत्फालःका तरंग ६
केसरिकिशोरश्चन्द्रशृङ्गमारूढ" इति । प्रातस्तं स्वमं शिष्यान् श्रावयामास । तैर्विनयपूर्वकं तत्फलं पृष्टः स्माह-कोऽप्यन्यवादिदन्तिमददशनो महामतिः शिष्योऽद्य समेष्यति इति' ततश्चैत्ये देवान्वन्दमानानां तेषां पुरः षड्वार्षिको बाल एकः प्रापत्, पृष्टः स्वं स्वरूपमुवाच--अहं पञ्चालदेशदुम्बाउधीग्रामवास्तव्यबप्पाख्यजनकभट्टिनामजननीसुतः सूरपालाख्यः शत्रून् हन्तुं सन्नान् विक्रमहेतुवयो नेति पित्रा स्वयं निवारितः। पिता स्वयं शत्रून्न हन्ति मामपि च तान् घ्नन्तं निवारयतीत्यनुशयादम्बामप्यनापृच्छयात्रागमम् ,अस्यामानुष्यकं तेज इति ध्यात्वा गुरुणोचे-अस्मत्पार्थे तिष्ठ, मद्भाग्यैः फलितमित्युक्त्वा स तत्र स्थितः । एकशः श्रुतमात्रेणानुष्टुभां सहस्रं धारयतीति प्रज्ञां विभाव्य तुष्टो गुरुः पितरौ प्रार्थ्य तमदीक्षयत् । पित्रोरभ्यर्थनया बप्पभट्टीति नाम चाकरोत् । श्रीविक्रमाद् वर्षाणां शताष्टके सप्ताधिके वैशाखशुक्लतृतीयायां गुरौ तस्य तपस्या बभूव, अन्यदा श्रीगुरुस्तस्य सारस्वतमन्त्रमदात् । तस्य मन्त्रस्मरतो गङ्गाश्रोतसि अनावरणा निशीथे। स्नान्ती सरस्वती तन्मन्त्रजापमाहात्म्यात् तद्रुपैवोपतदमाययौ, ईषद् दृष्ट्वा च तां वक्त्रं, परावर्त्तयति स्म सः। स्वरूपंविस्मरन्तीव,प्राह वत्स! कथं मुखम् ॥१॥ व्यवर्त्तयो भवन्मन्त्र-जापात् तुष्टाऽहमागता । वरं वृण्विति तत्प्रोक्ते, बप्पभट्टिरुवाच च ॥२॥ मातर्विसदृशं रूपं, कथं वीक्ष्ये तवेदृशम् । स्वं तनुं पश्य निर्वस्त्रमित्युक्ते स्वं ददर्श सा ॥३॥ अहो निविडमेतस्य ब्रह्मव्रतमिति विचिन्त्य मन्त्रमाहात्म्याद्विगलितवेद्यान्तराऽत्रागताहमित्याह, वरदानेपि निःस्पृहत्वात् त्वयि तुष्टात
POOOOOOOO90000000
00000000000000000
S
Jain Education
For Private Personel Use Only
Mainelibrary.org