SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 1000000000000000000000 प्रसूते च । एवं केचन प्रासुकनीरसभक्तपानादिमात्रोपजीविनः सुविशुद्धप्रकृतयः शुद्धधर्ममार्गोपदेशैर्दुग्धघृताद्युपमैः सततमुपकुर्वते परान् । सम्यक्चरणकरणानुष्ठानादि वत्सकाद्युपमं प्रसुवते च, श्रीप्रदेशिनृपप्रतिबोधकनीकेशिगणधरवत् । योग्याश्चैते, यदुक्तम्-महाव्रतधरा धीरा, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोप-देशका गुरवो मताः ॥१॥ यथा च धेनोर्दत्तं तृणाद्यपि दुग्धादितया परिणमति, एवमेतेषु दत्तं स्वल्पमप्यनन्तफलाय च कल्पते । श्रीऋषभदेवप्रथमभवसार्थवाहसार्थविहर्तृश्रीधर्मघोषसूरिप्रभृतिवत् । इति धेनुकदृष्टान्तभावना । | अथ सहित्ति--सखा मित्रं, स च यथा स्वहार्दसौहार्दवशंवदतयैव न पुनर्धनादिलिप्सया जीविकादिहेतोर्वा प्रवर्त यति साम्ना मित्रं हिते, निवर्त्तयति कुप्रवृत्तेः, निस्तारयत्यापद्गतम्, अवगृहति तदपवादान, प्रकटयति तद्गुणादिच। तदु-12 लक्तम्-पापान्निवारयति योजयते हिताय, गुह्यं निगृहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले, सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥१॥ परं यथावसरं बहुमानदानाद्युपचारमपेक्षते । प्रायः अबहुमानितस्तु स्वल्पस्नेहो निःस्नेहोऽपि वा भवेत् । तथा चाहुः-अदंसणेण अइदंसणेण दिहं अणालवंतेण।माणेण पवासेण य, पंचविहं जिज्झए पिम्म ॥१॥ ततश्च तादृक्कार्यावसरादावुदास्तेऽपीति । एवं केचिद्गुरवः सर्वसत्त्वेषु परममैत्रीपवित्रचित्ततयैव न तु धनादिलिप्सया जीविकादिहेतोर्वा जलधर इव साधारणोपकारप्रवृत्तयस्तादृगवसराधुचितमनोऽभिरुचितमधुरदेशनाभिरनुशासन्ति हितं, प्रकाशयन्ति विवेक, निर्नाशयन्ति मोहतिमिरपटलं, प्रबोधयन्ति प्रमादनिद्रामुद्रितविवेकलोचनं भव्यजनं, प्रकटयन्ति सम्यक्त्वादिगुणान्, रुन्धन्ति दुर्गतिदुर्गमार्गान्, निस्तारयन्ति चापारसंसारपारावारप्रस्फुरद्विविधापत्परम्पराभ्यः । 0000000000000000000000 उ.१. Jain Education Index For Private & Personel Use Only hinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy