SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग ६ ॥५४॥1 ஒருருருருரு सरसचार्यादिदानवत् । एते च कुगुरवः स्वयं महाप्रमादपङ्कनिमग्नाः कथं स्वानितान् भवान्निस्तारयन्तु । किं तु तैर्भा- रिता अधिकतरं स्वं परांश्च तत्रैव निमजयन्ति । इति वन्ध्यगवीदृष्ट्वान्तभावनानि ५॥ __ नडत्ति-यथा हि नटा वाचिकाङ्गिकसात्त्विकादिनानाविधाभिनयविधिकुशलास्तैस्तैर्विभावादिभिः स्वस्मिन्नसन्तमपि बहिः साक्षात् स्फुरन्तमिव सर्वाङ्गमालिङ्गन्तमिव चर्बणागोचरमिव च शृङ्गारादिरसं संसद्यवतारयन्ति रञ्जयन्ति च पर्षजनान् । हृतहृदयाश्च तेऽनर्गलहर्षदानादिभिः प्रीणयन्ति तानिति । एवं गुरवोऽपि केचिद् धर्माद् बहिःप्लवमानमनसोऽपि सागारिकादिसमक्षं तत्ताहक्रियाकलापादिप्रकटनपरा विविधाक्षेपिण्यादिप्रकारधर्मकथादिभिः स्वस्मिन्नसन्तमपि दर्शयन्ति पुरः स्फुरन्तमिव संवेगवैराग्यादिधर्मरसं रञ्जयन्ति च सभ्यजनान् । रञ्जिताश्च ते नानाविधाहारवस्त्रपुस्तकादिभिरुपचरन्ति तानिति । तदुक्तं-पढइ नडो वेरग्गं, निविजिज्जा बहू जणो जेण । पडिऊण तं तह सड्डो, जालेण जलं समोअरइ ॥१॥ अङ्गारमर्दकाचार्यश्चात्र निदर्शनम् । तथा ये च भट्टवन्निजाजीविकायै श्राद्धादीन् दातृन् स्तुत्वा तद्दानानि गृह्णन्ति । उक्तं च--गुरुणो भट्टा जाया, सड्ढे थुणिऊण लिंति दाणाई । दुन्निवि अमुणिअतत्ता, दूसमसमयंमि बुड्डुति ॥॥ तेऽप्येतेष्वेवान्तर्भवन्तीति । एवमेते षड्भङ्गीसङ्गिनोऽपि गुर्वाभासाश्चरणकरणगुणबाह्याः केवलं भवाभिनन्दितया प्रमादोत्सूत्रप्ररूपकत्वादिभिः स्वयं नष्टाः शुद्धधर्मापहारेणापरानपि नाशयन्ति इति सर्वथा दूरतरं परिहरणीयाः। तदुक्तम्किमितोऽपि महापाप-मज्ञानात्पातुकः स्वयम् । पातयत्यन्धकूपे यन्मूढः सहचरानपि ॥१॥ इति नटदृष्टान्तभावना ६॥ अथ घेणुत्ति-धेनुर्नवसूतिका गौः, सा हि यत्तत्तृणादि उपजीवति, दुग्धं घृतं च करोति । परोपकारार्थमेव प्रतिवर्ष HOTO-9000000006 ॥५४॥ 30000 Jain Education inte For Private & Personel Use Only AARLinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy