________________
तानि चापहरन्ति । तदुक्तं-पीयूषधारामिव दाम्भिकाः प्राक्, प्रलम्भनीयां गिरमुद्रिन्ति । पुनर्विपाकेऽखिलदोषधात्री, सैवातिशेते बत! कालकूटम् ॥२॥ अपि च-जटामौण्ड्यशिखाभस्म-वल्कनाम्यादिधारणैः। मुग्धं जनं गर्द्धयन्ते, पाखण्डा हृदि नास्तिकाः ॥२॥ केदारमार्जारसंबन्धः पुनरयं, तद्यथा-क्वचिदू वृक्षाधस्तित्तिरिर्वसति । अन्यदा तस्मिन् प्राणयात्रायै पक्कशालिक्षेत्रेषु प्राप्ते शशकस्तदावासमरुधत् । कियद्भिर्दिनैः स्वाश्रयं प्राप्तं शशकं प्रत्याह-शीघ्र निर्गच्छ ममायमाश्रयः। शशोऽवकू-ममैवायमिति।तित्तिरिः-पृच्छयताम् प्रातिवेश्मिकाः । उक्तंच-वापीकूपतडागानां, गृहस्योपवनस्य च । सामन्तप्रत्ययासिद्धि-रित्येवं मनुरब्रवीत् ॥१॥ शश:-मूर्ख ! किंन श्रुतं स्मृतिवचः? प्रत्यक्षं यस्य यद्भुक्तं, क्षेत्राद्यं दश वत्सरान् । प्रमाणं नाक्षराण्यत्र, साक्षी वा तस्य तद्भवेत् ॥१॥तथा च नारदमतम्-मानुषाणां प्रमाणं स्यादू, भुक्ति दशवार्षीकी । विहगानां तिरश्चां च, यावदेव समाश्रयः ॥१॥ ततो यद्यपि तवाश्रयस्तथापि शून्यो मयाश्रित इति ममैवायम् । तित्तिरिःस्मृतिं चेत् प्रमाणयसि तत् स्मार्तान पृच्छामस्ते यस्मै ददति तस्यायमिति । ततो गङ्गापुलिने केदारकडूकणाभरणस्तपोनियम
व्रतस्थो दृष्टो दधिकों नाम मार्जारधर्मात्मायं विवादं छिनत्त्वित्युक्ते, शशः-अलमनेन क्षुद्रेण, न हि विश्वसनीयं स्या-तप-| ॥ श्छद्मस्थितेऽधमे। दृश्यन्ते चैव तीर्थेषु, गलवरितपस्विनः॥१॥ तत् श्रुत्वा दम्भनिधिस्तद्विश्वासनायादित्याभिमुखो द्विपादा-13
वस्थित ऊर्ध्वबाहुनिमीलितनयनोधर्मदेशनामकरोत्सः-अहो !असारोऽयं संसारः, स्वप्नसदृशाः प्रियसङ्गमाः, तद् धर्मादन्या लिगतिर्नास्ति । उक्तं च यस्य धर्मविहीनस्य, दिनान्यायान्ति यान्ति च । स लोहकारभस्त्रेव, श्वसन्नपि न जीवति ॥१॥
इत्यादि देशनां श्रुत्वा विश्वस्तौ तावाहतुः । तपस्विन् ! धर्मदेशक ! आवयोर्विवाद धर्मशास्त्रेण भक्त्वा निर्णय देहि ।
இருவர் இராரு காருருருருருருருருரு
Jain Education in
For Private & Personel Use Only
jainelibrary.org