________________
ma
मुनिसुन्दरत्वाद्यभिमानभृतः केवलैहिकार्थप्रतिबद्धाः शापकार्मणपतिबहिःकरगशिरोजठरस्फोटादिभियो विविधाः प्रदय शुद्धधर्मध- उपदेशर० सू० वि०बनान्यामुष्णन्ति मुग्धजनानां वसुराजस्येव पर्वतकः । तथाहि-शुक्तिमतीपुर्या क्षीरकदम्वोपाध्यायपुत्रः पर्वतकः पितर्युपरते का तरंग
तत्पदवीमारूढश्छात्रान् भाणयति । तस्य सहाध्यायिनौ वसुनामा राजा नारदश्च । तत्र वसुनृपः सत्यवादी गगनतलावविलम्बिस्फाटिकपीठस्थ सिंहासनमध्यास्ते, सत्यवादमहिना नृपस्य सिंहासनं गगनस्थायीति जने प्रसिद्धिः । अन्यदोपाध्या-150 यपुत्रछात्रानध्यापयन्'अजैर्यष्टव्यम्' इत्यत्राजैश्छागैरिति व्याख्यानयंस्तदा तत्रागतेन नारदेन मैवं वादीरुपाध्यायेनाज-! शब्देन त्रिवार्षिका बीहयः प्रोक्ता इति प्रतिनिपिद्धः । मिथो विवदमानौ च तो शिरःपणं चक्रतुर्वसुनृपं च साक्षिणम् ।। ततः पर्वतो वसुनृपं स्वपक्षं प्रतिपादयितुं पूर्व गत्वा विविधोपरोधभीतिदर्शनादिभङ्गिभिः पर्यवासयत् । ताभिरप्यप्रतिपद्यमानं तं मत्वा स्वमातुरग्रे तत्स्वरूपं न्यरूपयत् । तदनु सा तजननी वसुनृपं स्माह-"देहि मे गुरुपल्याः पुत्रजीवितंक यद्वा प्रतीच्छाधुनैवेमां गुरुपत्नीहत्यामित्युक्त्वा यावत्सा मरणोद्यताभूत् तावद् भीतस्तद्वचः प्रत्यपद्यत नृपः । ततो विवदमानौ तौ प्राप्तौ तत्र नारदपर्वतौ । तत्र पर्वतकपक्षं कुर्वन्नृपः सद्यो देवतया चपेटाहतो भूमौ च नरके चापतदिति । याएवमपरेऽपि दृष्टान्ता ज्ञेयाः । इत्यामोषकभावना २॥ ठगत्ति-ठका नाम धूर्ता मधुपिधानविषकुम्भसमानाः केदारमार्जारादिसदृशाः । यथा ते कपटकोटिपटुतया मुग्धज
॥ ५२ ।। नानां धनान्यपहरन्ति जीवितान्यपि च, तथा केचिद्गुर्वाभासा हृदि नास्तिका बहिः क्रियादम्भमधुरवचनादिभिर्जनान् विप्रलभ्य स्वेष्टसिद्ध्यनुसारेण धर्माभासदेशनादिभिः सुविहितसाधुसङ्गनिवारणादिभिश्च तेषां शुद्धधर्मधनानि शुद्धधर्मजीवि
0000000
Jain Education in
For Private Personel Use Only
Hainelibrary.org