________________
क्वचिदुपलब्धतेजोलेश्यालब्ध्युपायः सम्यगनुष्ठिततद्विधिलेब्धवांस्तेजोलेश्याम् । अन्यदा तरुतलस्थस्य तस्य शिरसि तरुशिरःस्थबलाकया पुरीषव्युत्सर्जनं कृतम् । ततो रुष्टेन तेन तेजोलेश्यया सा भस्मसाच्चके । अन्यदा स भिक्षाये। पुरमविशत् । प्राप्तो जिनदासश्रेष्ठिगृहं, तत्र च श्रीमदार्हतधर्मभावितहृदया नाम्नार्थतोऽपि च शीलवती गृहस्वामिनी पतिशु-का श्रूषाव्यग्रा कियद्विलम्बेन भिक्षां दातुमुद्यता यावत्तावन्महाक्रोधनप्रकृतिविलम्बदानरुष्टः स परिवाटू तां बलाकागतिगोचरीकर्तुं तेजोलेश्यां मुमुक्षुधूममुज्जगार मुखात् । तत्स्वरूपं च दृष्ट्वा सम्यश्रीजिनधर्मनिर्मलशीलगुणावाप्तावधिज्ञानज्ञातबलाकादाहव्यतिकरा सर्वाङ्गादृढशीलकवचा स्माह सा तं प्रति-भद्र ! नाहं सा वलाकाऽस्मीति । तद्वचनचकितश्च स मनागुपशान्त इवाप्राक्षीत्तां, कथं वेत्सि वलाकाव्यतिकरम् ? साऽभाणीत्-एतत्ते वाणारसीवासी कुलालः कथयिध्यति । ततो विस्मितः स वाणारस्यां गतः। मिलितमात्रस्तेन कुलालेन प्रथममेव भाषितश्च, भद्र ! शीलवत्या प्रेषितोऽसि संशयप्रश्नार्थ ? तत् श्रुत्वा भृशं चमत्कृतः स, ततः पुनरुक्तं कुलालेन, शीलगुणेन शीलवत्या अवधिज्ञानमुत्पन्नं ममापि च, तेन यथास्थितं बलाकादिस्वरूपं जानीवः। ततः प्रतिबुद्धः स सम्यक्त्वशीलसुभगं धर्म प्रत्यपद्यतेति । एवं लोकोत्तरान् गुरूनाश्रित्यापि निदर्शनानि स्वयं ज्ञेयानि । यद्वापहरन्ति शुद्धधर्मजीवितानि जनानां स्वार्थसिद्ध्यनुसारि-4 स्वेच्छाग्ररूपितधर्माभासोपदेशदर्शनक्रियादिभिः, इति सर्पसदृशाः केचन कुगुरवः । उक्तं च सप्पो इक्कं मरणं, कुगुरु अणंताणि कुणइ मरणाई। तो परि सप्पो गहिओ, मा कुगुरूसेवणं भदं ॥१॥ इत्युक्ता सर्पदृष्टान्ता भावना १॥ अथ आमोसगत्ति-आमोषकाश्चौरविशेषास्ते हि शस्त्रादिभिर्भापयित्वालोकानां धनानि मुष्णन्ति । एवं केचित्कुलगुरु
Jain Education
!
For Private & Personal use only
COMrjainelibrary.org