________________
मुनिसुन्दर
सू० वि०
॥ १४० ॥
Jain Education
9000000
000000
अथ मध्याधिकारे प्रथमेऽशे
॥ अथ प्रथमस्तरङ्गः ॥
1000006
For Private & Personal Use Only
उपदेशर
तरंग १
अथ मध्याधिकारः—
अप्पे खित्ते काले, जीवे भावे अ संपयालाहे । विग्धाइकमे लब्भइ जो धम्मो भयह तं सिवयं ॥ १ ॥
व्याख्या-भयह तं सिवयमिति, तं दुर्लभतरं धर्मं भजतेति । भजधातुः सेवायां ततः सेव्यान्तरनृपादिवदाज्ञासारमा| राधयत प्रयत्नकृतधिय इत्यर्थः । एवमाराधन हेतुमभिधित्सुर्धर्मं विशेषयति सिवयमिति, शिवं नाम निखिलविघ्नव्यापड्युदासेनानन्दसुखसम्पदभ्युदयलक्षणं भववासं यावत्तदवसाने पुनः शिवं निःश्रेयसलक्षणं दत्ते यस्तम् । अथ तस्य दुर्लभत्वमेव प्रादुर्भावयति अप्पेत्यादि - यो धर्मः सर्वविरत्यादिस्वरूपो लभ्यत इति क्रियायोगः । क्व क्वेत्याह- अल्पे क्षेत्रे, क्षेत्रमूर्ध्वलोकादि तत्र, प्रतिपत्तिमङ्गीकृत्य मनुष्यलोक एव, तत्रापि च पञ्चदशकर्मभूमिष्वेव । यतः पञ्चदशकर्म्मभूमिजमनुजा एव सर्वविरतिं प्रतिपद्यन्त इति । यद्यपि "संमंसुआण लंभो, उहुं च अहे अतिरिअलोए अ । विरई मणुस्सलोए, विरयाविरई अ. तिरिए" ॥ १ ॥ इत्यागमे सम्यक्त्वश्रुतयोस्त्रिष्वपि लोकेषु विरताविरतेस्तिर्यक्षु च प्रतिपत्तिः प्रत्यपादि, तथापि ॥ १४० ॥ सुपर्वणां विषयव्यामूढत्वेन नारकाणां वेदनाव्याकुलत्वेन तिरश्चां विवेकादिविकलत्वेन च न तथा धर्मसामग्रीत्यतस्तदविवक्षैवेह । तथा चोक्तम् — 'देवा विसयपसत्ता, नेरईया विविदुक्ख संतत्ता । तिरिया विवेगविगला, मणुआणं धम्मसा
jainelibrary.org