SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १३९ ॥ Jain Education In स्वल्पं गुणं भवान्तरे किञ्चिद्भोग मात्रप्राध्यादिरूपं प्रथयति, यथा लक्षविप्रभोज्यकारिणो विप्रस्य तद्दानप्रभावात् सेचनकगजीभूतस्य । तस्य हि श्रेणिकनृपस्य पट्टहस्तित्वं लब्धवतो विविधभोज्यालङ्काराद्यवाप्तिर्गुणः स्वयः, मनुष्यत्वं हारयित्वा तिर्यग्गतिप्रापणादि च बहुदोपस्तेन दानधर्मेण विधीयते स्मेति । तथा अविधियुक्तोऽपि जिनधर्मो बहुगुणं स्वल्पं दोषं च करोति, यथा वामनस्थलीवासिश्रेष्ठिनः सकषायो जिनपूजाधर्मः सकृन्म्लेच्छकुलाप्तिरूपं दोषं स्वल्पं पुनर्जिनधर्मप्राप्या| दिरूपं गुणं च बहुं चकार, मेतार्यहरिकेशवलर्ष्यादयोऽप्यत्र दृष्टान्ता ज्ञेयाः ३ । विधिप्रयुक्तोऽर्हद्धर्मः पुनर्गुणमेव कुरुते । यथानन्दादीनाम् । एतद्भावना च प्राच्यगाथातो ज्ञेयेति ४ । 466866000 For Private & Personal Use Only उपदेशर • तरंग ९ वामनस्थलीश्रेष्ठिकथा यथा - वामनस्थल्यां जैनः कश्चिद्धनाढ्यः श्रेष्ठी वसति, चत्वारस्तस्य सुताः । तस्यावासे तुर्यभूमौ चतुरशीतिः पेटा रत्नभृताः, तत्रैव च देवालयः । अन्यदा पुत्रेषु न्यस्तगृहभारः श्रेष्ठी जिनार्चनाय तुर्यभूम्यां गतः, सर्व पेटानामुपर्येव कुचिका अपश्यत् । ततो मृदुवाचा पुत्रानाय पेटोपरि कुञ्चिकामोचने तालकादियलेन किम् ? इति युक्तयाऽवारयत् । एवं द्विस्त्रिर्निवारणेऽपि सुतैरदृष्टदुःखैलीलया तथैव कुञ्चिकामोचनेऽन्यदा श्रेष्ठी जिनानार्थं तत्र प्राप्तस्तथैव कुञ्चिकाः पश्यन् सुतोपरि किञ्चित्सरोषमना जिनानर्चयश्चैत्यवन्दनान्ते दैवाद्विपद्य पहयां पल्लीपतेः सुतोऽऊनि । क्रमात्प्राप्तपल्लीपतिपदः पञ्चशतीचौरवृतः पदे पदे चौर्य कुर्वन् वामनस्थल्यां स्वावास एवं प्रविष्टस्तत्र च ता रलपेटाः पश्यन् जातिमस्मार्षीत् । स्वं प्राग्भवकृतं सरोपधर्मं निन्दंस्तत्रैव जिनालयाग्रे तस्थौ नमस्कारध्यानपरः । ॥ १३९ ॥ चौरेषु निवृत्तेषु प्रातस्तत्र राजाद्यागमः । राज्ञा पृष्टः स्वं प्राग्भवं साभिज्ञानमवादीत्, ततः सर्वेषां विस्मयः । jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy