________________
मुनिसुन्दर सू० वि०
॥ ४९ ॥
Jain Education
॥ अथ पञ्चमस्तरङ्गः ॥ पुनः प्रकारान्तरेण श्रीगुर्वादिस्वरूपं निरूपयति —
aण १ किरिआहि २ सारासारा जह हुंति चउविह कवाला ।
तह गुरु १ सीसा २ सावय ३ वाया १ विणयाई २ कम्मेहिं ॥ १ ॥
यथा वचनक्रियाभ्यां साराण्यसाराणि चेति चतुर्विधानि कपालानि, तथा गुरवः शिष्याः श्रावकाश्च वाचा विनयादिक्रियाभिश्च सारा असाराश्चेति चतुर्विधाः स्युरिति संटङ्कः । तत्र कपालानीति करोटिका उच्यन्ते, ताश्च काश्चन साधि( छायकाः स्युर्महापुरुषसंबन्धिन्यः । तासु च काश्चन केनचिद्विधिवत्पूजिता वदन्ति पञ्चशतीं रत्नानि गृहाणेति सद्यस्तान्यपयन्ति चेति वाचा क्रियया च द्विधापि सारा इति प्रथमः १ । काश्चिच्च तथैव वदन्ति नत्वर्पयन्ति किञ्चिदपीति वाचा साराः क्रियया त्वसारा इति द्वितीयः २ । अपराः पुनर्न ब्रूयुः किमपि परं प्राग्वत् पूजिताः पूरयन्त्यर्थितानीति ॐ वागसाराः क्रियासाराश्चेति तृतीयः ३ । याः पुनः सामान्य पुरुषसंबन्धिन्यो निरतिशयास्ता न वदन्ति न च वितरन्ति किश्चिदुपीति द्विधाप्यसारा इति चतुर्थश्च विकल्पः ४ । तथा गुर्वादीनप्याश्रित्य चतुर्भङ्गी - तत्र गुरूणां वाक्सारत्वं सदु पदेशकौशलवत्तया, विनयः पञ्चमहात्रतादिसम्यगनुष्ठानरूपः तदादिमत्तया क्रियासारत्वं च भाव्यम् । ततश्च केचिद्गुरखो। द्विधापि साराः श्रीवज्रस्वामिप्रभृतिवत् १ । अपरे तु वाचा साराः क्रियया त्वसारास्तादृगुपदेशकौशलभृत् पार्श्वस्थाद्या
For Private & Personal Use Only
उपदेशर० तरंग ५
॥ ४९ ॥
w.jainelibrary.org