________________
0904
ॐॐॐॐॐ09926260
करणं, पारणके सर्वपौषधग्राहिभोजनम् । अतिथिसंविभागवते दुःखिसाधर्मिकश्रावकलोकानां ७२ लक्षद्रव्यकरमोचनं, श्रीहेमसूरिधर्मशालमुखवस्त्रिकाप्रतिलेखकधार्मिकस्य पञ्चशततुरङ्गमद्वादशनामाधिपतित्वप्रदानं, सर्वमुखवस्त्रिकाप्रतिलेखकानां ५०० ग्रामदानानि च । एवमनेकविधास्तस्य विवेकशिरोमणेरन्येऽपि पुण्यमार्गाः, कियन्तोऽत्र लेखितुं शक्यन्ते । इत्येवं तस्य स्वयं सम्यगूधर्मानुष्ठानेन स्वात्मन उपकारो भवद्वयावशेषसंसारकरणादिरूपः, साधर्मिकादीनां यथार्हदानमानधर्मसांनिध्यकरणकरमोचनसीदत्समुद्भरणादिभिरष्टादशदेशेवमारिप्रवर्तनादिभिश्च परोपकारोऽपि स्फुट एवे. त्यन्तर्बहिश्च सारत्वमिति । साधुश्रीपृथ्वीधरसाजगसिंहसामुहणसिंहादयोऽपि दृष्टान्ता योजनीया यथाहमत्र । इत्युक्ता श्राद्धानाश्रित्य चतुर्भङ्गी । सामान्यतो जीवानाश्रित्याप्येवमेव चतुर्भङ्गी वाच्या । नवरं श्राद्धा इति स्थाने केचिज्जीवा ॥इति वाच्यं, दृष्टान्ताश्च यथार्ह साधुश्राद्धादयः सर्वेऽपि तत्रावतारणीया इति ।
मत्वेति गुर्वादिगताइमाश्चतु-भङ्गीः सदाङ्गीकृतशुद्धदर्शनाः।
तथा यतध्वं भववैरिणो जय-श्रियं वृणीध्वं भविनोऽचिराद्यथा ॥१॥ इतितपागच्छे श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे रत्नदृष्टान्तेन गुर्वादिस्वरूपव्यावर्णनरूपस्तरङ्गश्चतुर्थः ॥
4
Jain Education
For Private & Personel Use Only
Metainelibrary.org