________________
30000000000000000000
कृच्च श्रीहेमसूरिः श्रीआमनृपादेर्द्विधाप्युपकारिणः श्रीवप्पभट्टिगुर्वादयश्चात्र निदर्शयितव्या इति चतुर्थो भङ्गः ४॥ का एषु प्रथमभङ्गगुरवस्त्याज्या एव, द्वितीयभङ्गगुरवोऽपि सुगुरुयोगसंभवे त्याज्या एव, यतस्तेषां प्रमादाचरणं पश्यतां |
श्रोतॄणां तदुक्तधर्मेऽप्यनास्थोल्लासादिना प्रायो न तदुपकारसिद्धिरिति । यथोत्तरमुत्तरभङ्गगुरुद्वयं च योग्यमित्याराध्यं श्रेयोऽर्थिभिरिति । इत्युक्ता श्रीआचार्यानधिकृत्य चतुर्भङ्गी । अथ श्रमणगोचरा सा भाव्यते । तथाहि-श्रमणानां स्वोपकारः सम्यक्चरणकरणसमाचरणादिः, परोपकारश्च गुरुतपस्विबालवृद्धग्लानवैयावृत्त्यादिः सम्यक्सामाचारी प्रवर्तनस्थिरीकरणादिकश्च । तत्र काचादिमणिवत्केऽपि श्रमणाः स्वोपकारपरोपकाराभ्यां रहितत्वात् द्विधाप्यसाराः। ते च पार्श्वस्थादय एव । केचित्तु द्वितीयरत्नवदन्तरसाराः स्वात्मोपकारहेतुसंयमगुणविकलत्वात् । बहिस्तु सारा ग्लानत्वाद्यवस्थासु सुसाधूनां वैयावृत्त्याद्युपकारपरत्वात्, ते च संविग्नपाक्षिकादय एव । यदुक्तं-कान्ताररोहमद्धाणओमगेलन्नमाइकजेसु । सबायरेण जयणाइ, कुणइज साहुकरणिज ॥१॥ एते च मनाग योग्याः । संविग्नपाक्षिकत्वस्य तृतीयमार्गत्वात् । यदुक्तं सावजजोगपरिवजणाइ सबुत्तमो जईधम्मो। बीओ सावगधम्मो, तईओ संविग्गपक्खपहो ॥१॥ इति द्वितीयो भङ्गः २॥ केचिच्च तृतीयरत्नवदन्तःसारा, वहिः पुनरसाराः, स्वार्थैकनिष्ठत्वात् , प्रतिमाप्रतिपन्नजिनकल्पिकादिसाधुवदितितृतीयः ३॥ केचित्तु तुर्यरत्नवदुभयथापि साराः स्वस्य परस्य चोपकारित्वात् श्रीभरतचक्रिबाहुबलिप्राग्भववाहुसुबाहुश्रीवसुदेवजीवश्रीनन्दिषेणादिमहर्षिवदितिचतुर्थः ४॥ एते द्वये योग्यास्तद्भवे त्रिचतुरादिभवेषु वा सिद्धिगामिन इति । उत्तरत्राप्येवं भावना ज्ञेयेत्युक्ता श्रमणानां चतुर्भङ्गी । अथ श्राद्धानां सा भाव्यते-तत्र श्राद्धाः
000@
श
जै
Jain Education Interior
For Private & Personel Use Only
ainelibrary.org