________________
उपदेशर० | तरंग१६
मुनिसुन्दरमा दिनानुपकारित्वात् यथा श्रीआर्यमहागिरिसूरयः । ते हि श्रीआर्यसुहस्तिभ्यो गच्छं दत्त्वा तदा जिनकल्पस्य व्यवच्छे- सू० वि०॥ दाजिनकल्पाहवृत्त्या गच्छनिश्रास्था व्यहार्षः । अन्यदा श्रीसुहस्तिसूरयो विहरन्तः पाटलिपुत्रपत्तनमाजग्मुः, तत्र सुभूतिः
श्रेष्ठी श्रीगुरुवचनात् प्रतिबुद्धः श्राद्धोऽभूत् , श्रीगुरूक्तधानुवादेन स्वजनान् बोधयति, परं ते नावुध्यन्ताल्पमेधसः। ॥४६॥
ततस्तत्प्रतिबोधायाहूताः श्रीसुहस्तिगुरवस्तद्गृहमापुः, देशनां प्रारेभिरे तावत्तत्र भिक्षार्थ प्राविशत् आर्यश्रीमहागिरिः।। श्रीसुहस्ती तमभ्युत्थायावन्दत, ततः सहसा भिक्षामगृहीत्वैव न्यवर्त्तत श्रीमहागिरिगुरुः । तथा दृष्ट्वा सुहस्तिगुरुं श्रेष्ट्युवाच-युष्माकमपि कोऽप्यस्ति किं गुरुः ? सूरि:-श्रेष्ठिन्नस्माकमेते गुरवः त्यागाईभक्तादिभिक्षामाददते सदा, अत्र तद्गुणवर्णनं, तत् श्रुत्वा जातश्रद्धः स श्राद्धः स्वजनानूचे-ईदृशं मुनि यदा पश्यत तदा भक्तादिकं त्यज्यमानं दर्शयित्वा तस्मै देयं यथा महाफलं स्यात् । ततो द्वितीयेऽहि तैस्तथा दीयमाने उपयोगे तमाहारमशुद्धं विज्ञायानादाय च वसती गत्वा श्रीसुहस्तिनमुपालब्धवान् । यत् त्वया ह्यो विनयं कृत्वास्माकमनेषणा कृतेति । ततो नैवं भूयः करिष्ये इत्युक्त्वा श्रीसु| हस्ती तं क्षमयामासेति । एवं ये गणादितप्तिं विमुच्य स्वाथै कपरास्तेऽत्र भने ज्ञेया, जिनकल्पिकाचार्यादयश्चात्र निदर्शनमिति तृतीयो भङ्गः ३ ॥ तथा तुर्यरतवत्केचिदाचार्या उभयथापि साराः स्वात्मोपकारपरत्वेन परेषामपीह प्रेत्य च द्रव्यतो भावतश्चोपकारित्वेन त्र्यधिकपञ्चदशशततापसयथेष्टपरमान्नाहारकेवलज्ञानप्रदायिश्रीगौतमगणधरादिवत् । तदुक्तं-नव्यो गुरुः सुरतरुर्विहिताऽमितर्द्धि-यत् केवलाय कवलार्थिषु गौतमोऽभूत् । तापातुरेऽमृतरसः किमु शैत्यमेव, नाप्रार्थितोऽपि वितरत्यजरामरत्वम् ॥१॥श्रीकुमारपालनरेन्द्रस्य बहुष्ववसरेषु ऐहिकोपकारकृत्यारत्रिकोपकार
இஇஇஇருGGGGGE
இ
Jain Education Intel
For Private & Personel Use Only
ainelibrary.org