________________
-
व्याख्या-आचार्याः श्रमणाः श्राद्धाः सामान्यतो जीवाश्च रत्नानीव मध्ये बहिः सारा असाराश्च भवन्तीति चतुर्भङ्गी। |तत्र रलानामन्तःसारत्वमगर्भितत्वाभङ्गरत्वादिभिर्बहिःसारत्वं पुनस्ताक्तेजोविशेषादिना । आचार्यादीनां बहिरन्तःसारत्वे सूत्रकार एव हेतुमाह-"सपरुभयाणुभयाणोवयारओत्ति" स्वस्य स्वजीवस्य परेपामन्यभव्यसत्त्वानां तदुभयस्य |
अनुभयस्य चोपकारतो हेतोश्चतुर्भेदा भवन्तीति गाथार्थः। एतद्भाव्यते-यथा कानिचिद् रत्लानि मध्ये बहिश्चासाराणि, लायथा काचमणिः । कानिचिच्चान्तरसाराणि बहिश्च साराणि मण्डूक्यादिगर्भितरत्नवत् । कानिचित्पुनरन्तःसाराणि बहि
श्वासाराणि खन्यादिमृन्मलिनजात्यरत्नवत् । कानिचिन्मध्ये बहिश्च साराण्येव, यथाविधिसंस्कृतकोटिमूल्यादिप्रसिद्धजात्यरत्नवत् इति । तथा केचिदाचार्याः प्ररूढप्रमादत्वेनोभयलोकैकान्तिकहितं चारित्रधर्म शिथिलयन्तः स्वात्मनोऽप्यनुपकारिण इत्यन्तरसाराः, अन्यसत्त्वेभ्योऽपि सम्यग्देशनादिना तं धर्म न ददतीत्यन्येषामपि नोपकारिण इति बहिरसाराश्च । ते च पार्श्वस्थादयो ज्ञेयाः। तत्स्वरूपं च प्राच्यगाथयोरुक्तमिति प्रथमो भगः १॥ केचित् पुनातीयरलवदन्तरसाराः स्वत्यानुपकारित्वात् भावना प्राग्वत् । बहिस्तु साराः सूत्रार्थप्रथादिभिः शिष्यवर्गस्य विहारदेशनादिभिरन्यभव्यसत्त्वानां चेह परत्र च द्रव्यतो भावतश्चोपकारित्वात् । एते च संविग्नपाक्षिका ज्ञेयाः। तथा च तल्लक्षणम्-सुद्धं सुसाहुधम्म, कहेइ निंदइ य निअयमायारं । सुतवस्सिआण पुरओ, होइ अ सबोमरायणिओ ॥१॥ वंदइन य वंदावइ, कि
इकम्म कुणइ कारवे नेव । अत्तष्ठा न वि दिक्खइ, देइ सुसाहूण बोहे ॥२॥ इति द्वितीयो भङ्गः २॥ केचिच्च तृतीयरत्न जवदन्तःसाराः स्वात्मोपकारैकपरत्वात् , बहिस्त्वसाराः आत्मार्थंकनिष्ठत्वेन परेषां शिष्यगच्छश्राद्धादीनां तप्तिपरिहारा
000000000000000000
JainEducation in
For Private
Personel Use Only