________________
मुनिसुन्द सू० वि०
11 84 11
Jain Education In
एतद्भावना च पूर्वगाथायां श्वपाकाभरणदृष्टान्तभावनाया कृतास्तीति ततो विशेषार्थिभिर्ज्ञेया १ ॥ यथा च वेश्याकरण्डको | जतुपूरितस्वर्णाभरणादिस्थानत्वात् श्वपाकाभरणतः सारोऽपि वक्ष्यमाणकरण्डापेक्षयाऽसारस्तथा केचिद्दुरधीतश्रुतलवाः किञ्चित्क्रियाप्रवर्त्तनेन वागाडम्बरेण च मुग्धजनमावर्जयन्तोऽपि परीक्षाया अक्षमत्वादसाराः, पार्श्वस्थादिभ्यः किञ्चिरसारत्वेऽप्येतेषां विशिष्टचारित्रापेक्षयाऽसारत्वमिति २॥ तथा गृहपतिः श्रीमान् कौटुम्बिकस्तस्य करण्डो यथा विशिष्टमणि| स्वर्णाभरणादिस्थानत्वात् सारः, एवं केचिद् गुरवः स्वसमयपर समयज्ञाः सम्यक्रियादिगुणयुक्ताश्चेति साराः ३ ॥ यथा च राज्ञः करण्डको मूल्यरत्नजटिताभरणामूल्य रत्नादिस्थानत्वात्सारतसः, तथा केचिद् गुरवः समस्ताचार्यगुणभृतो विशिष्टातिशयविविधलब्धिसमृद्धिपदं चेति सारतमाः श्री गौतमश्रीसुधर्म स्वामिश्रीभद्रबाहुश्री स्थूलभद्रादिवत् ।
श्रत्वा तदेवं गुरुगोचरां चतु-भङ्गीं करण्डोपमया स्फुटीकृता । सदाद्रियध्वं सुगुरून् बुधा यदि, स्पृहा भवद्वेषिजयश्रियेऽस्ति वः ॥ १ ॥ ॥ इतितपागच्छनायक श्री मुनिसुन्दरसूरिविरचिते उपदेशरलाकरे तृतीयस्तरङ्गः ॥ ॥ अथ चतुर्थस्तरङ्गः ॥
अथ रत्नदृष्टान्तेन पुनर्गुरुचतुर्भङ्गीं प्रस्तावतः सामान्य जीवादिचतुर्भङ्गीश्वाहमज्झबहिसारसारा, रयणा वायरिअसमणसङ्घजिआ । सपरुभयाणुभयाणो - क्यारओ हुंति चउभेया ॥१॥
For Private & Personal Use Only
उपदेशर० तरंग १६
11 84 11
jainelibrary.org