SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 00000000006 0000@@छछछछछी000 ॥ अथ तृतीयस्तरङ्गः ॥ अथ करण्डोपमया श्रीगुरुचतुर्भङ्गीमाहसोवाग १ वेस रगिहवइ ३ राय४ करंडोवमा चउह गुरुणो।सुअचरणाईहिं जहुत्तरं असारा य सारा य॥१॥ व्याख्या-श्वपाकादीनां करण्डैरुपमा येषां ते चतुर्द्धा गुरवो भवन्ति, श्रुतचरणादिभिरसद्भिः सद्भिः सातिशयैश्च हेतुभूतैर्यथोत्तरमसाराः साराश्चेति भङ्गद्वयन चतुर्भङ्गी सूचनादसारतमा असाराः साराः सारतमाश्च भवन्तीत्युक्तिसंटङ्कः। तत्र श्रुतमहत्प्रणीतागमः , चरणं पञ्चमहाव्रतादि, तथा चागमः-वय ५ समणधम्म १० संजम १७, वेयावच्चं १० च वंभगुत्तीओ ९ नाणाइतिगं ३ तव १२ कोहनिग्गहाई ४ चरणमेअं॥१॥ आदिशब्दात् करणादिग्रहः । श्रीसूरिविशेषगुकाणातिशयलब्धिप्रभृतिग्रहश्च । तत्र करणं पिण्डविशुद्ध्यादि, यदागमः-पिण्डविसोही ४ समिई ५, भावण १२ पडिमा १२ काय इंदिअनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गहा चेव करणं तु ॥१॥श्रीसूरिविशेषगुणाः प्रतिरूपत्वादयः। तदुक्तं-पडिरूवो तेअस्सी० १ ॥ अपरिस्सावी. २॥ अतिशयाः पुनः सार्द्धयोजनद्वयादौ दुर्भिक्षडमरहरत्वादयः विद्यामन्त्रचूर्णादिप्रयोगजन्मानो वा वशीभूतदेवतादिजनिता वा चमत्कारविशेषाः, लब्धयस्तु क्षीरास्रवादयः कफविघुण्मलामशौषध्यादयोऽवधिज्ञानादयश्चेति । अथैतद्भाव्यते-यथा श्वपाककरण्डश्चर्मपरिकोपकरणवर्धादिचाशस्थानतयाऽत्यन्तमसारः, तथा पार्श्वस्थादयः षटूप्रज्ञकगाथाज्योतिषादिरूपसूत्रार्थधारिणस्तथाविधयतिक्रियाविकलाश्चेत्यत्यन्तमसाराः । तेषां तथाविधश्रुतस्य तक्रियाणां च सावद्यत्वेन परेषां धानास्थामिथ्यात्वादिपोषकत्वेन च चर्माशादिसमत्वात् । Jain Education Interna For Private & Personel Use Only Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy