________________
मनिसुन्दर सू० वि०
उपदेशर० तरंग १५
000000000000000000000006
निदर्शनं प्राग्वत् वरदत्तश्रेष्ठिदासीपुत्रादयः । केचित्तु तद्भवेऽपि सम्यग्धर्ममपि लभन्ते, क्षुल्लककुमारवत् । नवपरिणी- तनागिलाध्यानपरभ्रातृभवदेवोपरोधवशबहुवर्षद्रव्यलिङ्गधारकभवदत्तवच्चेति द्वितीयो भङ्गः २॥ अपरे पुनर्महेभ्याभरणवदन्तःसारा हृदये धर्मपरिणामवत्त्वात्, बलभद्रमहर्षिसेवकमृगवत् । बहिस्त्वसारा धर्मक्रियारहितत्वेन, तथा चागमः-सुई च लद्धं सद्धं च, वीरिअं पुण दुल्लहं । बहवे रोअमाणावि, नो अणं पडिवज्जए॥१॥ एते चानासन्नसिद्धिकाः प्रायः क्रियानुष्ठानं विना भवतरणासिद्धेः । यदुक्तं-जाणंतो वि हु तरिउं, काइयजोगं न जुजई जो उ।सो वुज्झइ सोएणं, एवं नाणी चरणहीणो॥१॥ केचित्तु भवान्तरे सम्यक्रियानुष्ठानवीर्यावाप्तावन्तर्बहिश्च सारतां प्राप्यासन्नसिद्धिका अपि भवन्तीति तृतीयो भङ्गः ३॥ अन्ये पुननेपाभरणवद् वहिरन्तश्च सारा यथा देशविरताः श्रीकुमारपालादयः, सर्वविरताः श्रीवीरप्राच्यभवनन्दनादयश्च । एते च तत्रैव भवे तृतीयादिभवेषु वा सिद्धिगामिन इति चतुर्थों भङ्गः ४॥
एवं गुरुश्रावकधर्मजीव-गते पृथग् भङ्गचतुष्टयेऽस्मिन् ।
यतध्वमन्त्यद्वितयेषु चेतो, निवेश्य भावारिजयश्रिये ज्ञाः!॥ १॥ इति तपागच्छे श्रीमुनिसुन्दसूरिविरचिते श्रीउपदेशरत्नाकरे श्रीगुरुपरीक्षाधिकारे पञ्चदशस्तरङ्गः॥
॥ इति द्वितीयेऽशे प्रथमद्वितीयतरङ्गौ समाप्तौ ।।
அருவOGGOOGஇருவரும்
Jain Education
For Private
Personel Use Only
jainelibrary.org