SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education 90000 गपरिधाय बम्भलोगो जा” एवजातीयोऽन्योऽपि धर्मोऽत्र भने ज्ञेय इति द्वितीयो भङ्गः २ ॥ अपरो धर्म्मश्च महेभ्याभरणवदन्तःसारो बहिश्वासारः, यथा अविरतसम्यग्दृष्टधर्मस्तस्य सम्यगदेवगुरुधर्म्मश्रद्धानतदाराधनपरिणामपापभीरुत्वादिलक्षणाया अन्तः शुद्धेः सत्त्वेनान्तः सारत्वात् । स्थूलवधाद्यविरतितपः कष्टानुष्ठानादिरहितत्वाभ्यां बहिर सारत्वाच्च सत्यकीविद्याधरादेखि, एतद्धर्म्माराधकाश्च नियमाद्वैमानिकदेवगतिवर्जमायुर्न बनन्ति । यदागमः - सम्मद्दिट्ठी जीवो, विमाणवज्जं न बंधए आउं ॥ इत्युक्तस्तृतीयो भङ्गः ३ ॥ अथ कश्चिद् धर्मोऽन्तर्बहिश्च सारः, पृथ्वीपत्याभरणवत् । यथा जैनः सर्वविरतिधर्मः स हि यथोक्तान्तः शुद्धिवहिः शुद्धिमत्त्वेन द्विधापि सार एव, एतद्भावना सुबोधैवेति न प्रतन्यते । अस्माच्च धर्माज्जघन्यतः सौधर्मे, उत्कर्षतः सर्वार्थसिद्धे सिद्धौ च गतिजींवानामिति । देशविरतिधर्मोऽप्यत्रैवावतारणीयः । अन्तःशुद्धिवहिः शुद्धिभावना देशतोऽत्रापि वाच्या, अतो धर्मादुत्कर्षाद्वादशे कल्पे, जधन्यतः सौधर्मे च गतिः, दृष्टान्ता यथार्ह स्वयं वाच्या इति धर्म्मविषया शुद्धिमधिकृत्योक्ता चतुर्भङ्गी ४ ॥ अथ सामान्यतो जीवानां धर्म्मगुणमधिकृत्य चतुर्भङ्गी, तथाहि — केचिज्जीयाः श्वपाकाभरणवद् धर्मतोऽन्तर्बहिश्चासाराः। हृदये परिणामतो बहिश्च क्रियातो धर्माभावात् कालसौकरिकादिवत्, नरकादिगामिनश्चैते ज्ञेयाः १ ॥ अन्ये पुनर्गणिकाभरणवदन्तरसारा बहिश्च साराः, हृदये धर्मपरिणामस्याभावाद्, वहिस्तत्क्रियासमाचरणाच्च । द्वादशवर्षीयतिवेपोदायि-ॐ नृपवधक साधुवत्, त्रिग्राममध्यवासिकूटक्षपकवञ्च । एते च केश्विदिहाप्यनर्थभाजनं स्युस्तदुभयवदेव, प्रेत्य च नरकादि गामिनो ज्ञेयाः । केचित्पुनरतिक्षुद्रमनसः क्रियाभ्यासादिना प्रेत्य वोधिमपि लभन्ते, तत आसन्नसिद्धिका अपि भवन्ति । For Private & Personal Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy