SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भुनिसुन्दर केचित्पुनर्नृपाभरणवदन्तर्बहिश्च सारा, हृदये बहिश्च सम्यश्रुतधारित्वाद् रत्नोपमनिरूपमातिशयविविधलब्धिसमृ-10 उपदेशर० सू० वि० द्धिभिः समधिकतरं दीप्तिभृत्त्वाच्च । तत्र श्रीवज्रस्वाम्यादयो दृष्टान्ताः स्पष्टा एवेति । एते चतुर्थभङ्गसंगताः श्रीगुरवः । तरंग १५ ॥४०॥ श्रीजिनशासनप्रभावनैकपराः, स्वपरयोस्तारणसमर्थाः,प्रवहणवदाश्रयणीया भवाब्धि तरीतुकामैः। एतदलाभे तृतीयभङ्गसङ्गिनोऽपि । आद्यभङ्गद्वयगुरवस्तु त्याज्या एवेति । इत्युक्ता श्रीगुरुगता श्रुतमाश्रित्य चतुर्भङ्गी ४॥ | अथ क्रियामाश्रित्य श्राद्धानां चतुर्भङ्गी दृश्यते-श्रुतमाश्रित्य तु तेषां चतुर्भङ्गी न दृश्यते, तेषां विशेषश्रुतान धिकारित्वात् । तदुक्तं-अठ्ठप्पवयणमाया-णुगयं सुत्तं जहन्नओ पढइ । उक्कोसेणं छजीवणि,-अंतु जइवयकओ जोगो x॥१॥ इति । तत्र केचित् श्राद्धाः क्रियामाश्रित्य श्वपाकाभरणवदन्तर्बहिश्चाऽसाराः । तथाहि-क्रिया खल्वत्र श्राद्धविध्यनुष्ठानं व्यवहारशुद्धिजिनपूजागुरुप्रतिपत्तिसुपात्रदानहिंसादिविरतिसामायिकावश्यकादिरूपा । सा क्रिया केषांचिदन्तहृदये रुचिरूपेण नास्ति, बहिश्च करणरूपेणापि नास्ति, केवलं श्राद्धकुलोत्पन्नत्वादिना श्राद्धनाममात्रधारित्वमस्ति, ते प्रथमभङ्गपातिनः श्राद्धा ज्ञेयाः । एते च धर्मगोचराया रुचेरप्यभावेन सम्यक्त्वादिविकलाः प्रथमगुणस्थानवर्तिनो गृहस्त्रीधनापत्यादिप्रतिबद्धाः कुटुम्बाद्यर्थ विविधारम्भपरा इह दुःखिनः स्युरपयशोभाजनं च, प्रेत्य चैकेन्द्रियादिषुगताः सुचिरं भवं भ्राम्यन्ति, धनप्रियश्रेष्ट्यादिवत्। उक्तं च-पुत्ताइसु पडिबद्धा,अन्नाणपमायसंगया जीवा । उप्पजति धणप्पिअ-वणिउवेगिदिएसु बहु ॥१॥ इति श्रीभवभावनायाम् । केचित्पुनहिसाऽसत्यस्तैन्याब्रह्मादिअविरता भक्ष्याभक्ष्यपेयापेयादिविवेकविकला इहापि ज्ञातिपङिबहिःकरणधनराज्यादि,शेन्द्रियाद्यङ्गच्छेदकुमरणादि प्राप्नुवन्ति, 00000000000000000000 Jan Education UIB For Private Personel Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy