SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Education नमिति । ततो नृपः स्वगृहागतो रात्रिशेषमतिवाह्य प्रातर्मन्त्रिगृहं भटैः शोधयित्वा भूमिगृहे भगिनी लब्धा । मन्त्रिणं देशान्निरकाशयत् । ततो ज्ञानिनं मुनिं प्रशशंस । तं च नत्वा तदुक्तं धर्मं प्रत्यपद्यत मन्त्र्यादिभिः परैश्चसह । ततः स यवराजर्षिर्वन्धुवर्ग प्रतिबोध्य गुरुपार्श्वे गतः, प्रमादं त्यक्त्वा श्रुतं पपाठ, तपस्तप्त्वा दिवं ययौ । इति यवराजर्षिकथा । एवमल्पश्रुतस्याप्यनुदरा कन्येत्यादिवदविवक्षया तदऽध्येतारोऽन्येऽपि सम्यकुक्रियापरा गुरुवरा बहिः श्रुतसारत्वाऽभावेऽप्यन्तःसारत्वेनाश्रितवतां शिवसीमशुभफलदायिनो भवन्तीति । आह परः - ननु अल्पश्रुतस्य कथं स्वपरतारकत्वं ? यदागमः - अबहुस्सुओ तवस्सी, विहरिउकामो अजाणिऊण पहं । अवराहपयसयाई, काऊण वि जो न याणेइ ॥ १ ॥ इत्यादि । उच्यते - बहुश्रुतगुरुपरतन्त्रतया सम्यग्धर्मानुष्ठाने स्वयं प्रवर्त्तमानानां परांश्च प्रवर्त्तयतामल्पश्रुतानामपि स्वपरतारकत्वमविरुद्धम् । तदुक्तं - गुरुपारतंतनाणं, सद्दहणं एअसंगयं चेव । इत्तो उ चरित्तीणं, मासतुसाईण निद्दिहं ॥ १ ॥ किञ्च - अगी अस्स इमं कह ? गुरुकुलवासाङ, कह ? तओ गीओ । गीआणा करणाओ, कहमेअं ? नाणओ चैव ॥ १ ॥ अंधेणंधोध सया, तस्साणाए जहेव लंघेइ । भीमंपि हुकं तारं, ॐ भवकंतारं इअ अगीओ ॥२॥ यद्वा महेभ्यानामाभरणानि जात्य सुवर्णमयत्वेनान्तर्बहिश्च सारत्वेऽपि बहिस्ता दृक्प्रौढरत्नादि - जटितत्वाभावान्नृपाभरणाद्यपेक्षया अनुदरा कन्येत्यादिवदल्पसारत्वादसाराणि विवक्षितान्यत्र । तथैतद्भङ्गगा गुरवोऽपि सकल स्वसमयावगाहादिनान्तर्बहिश्च सारत्वेपि तादृक्कवित्वशक्तिवादलब्ध्युपदेशप्रागल्भ्याद्ययोगेन वाह्यजनेषु तथामहिमप्रसिद्धेरभावाद् बहिरसारा ज्ञेया इत्यादि ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy