________________
0000
मुनिसुन्दर
॥ ३९ ॥
नदीट्ठा, अगडे बूढा अणुलिआ ॥ २ ॥ तामपि हर्षात् पठन् कियद्भिर्दिनैर्विशालाया प्राप्तः, कुम्भकारगृहे निश्यस्थात् । सू० वि० ॐ तत्रेतस्ततो भ्रमन्तमुन्दरं प्रति ऊचे कुम्भकृत् - सुकुमालसुकोमल भद्दल्या, रत्तिं हिंडणसीलणया । अम्हपासा न ते भयं, दीहपीठाउ ते भयं ॥ ३ ॥ एतां गाथात्रयीं कल्पद्रुमचिन्तामणिकामधेनुत्रयीमिव प्राप्तां मेने स मुनिः पुनः पुनः ॐ परावर्त्तयते । अत्रान्तरे तत्र पुरे दीर्घपृष्ठामात्येन राज्ञः स्वसाऽणुल्लिका स्वगृहान्तर्भूगृहे गोपितास्ति । भूपं केनाप्युपायेन ॐ निहत्य स्वसुतं राज्ये निवेश्यैनां पाणी कारयिष्यामीति । राज्ञा भटैः शोधितापि स्वसा न लब्धा । तावन्मन्त्री यवराजर्षिमागतं श्रुत्वा तपसा प्राप्तज्ञानोऽयं भावी, ज्ञानेन च ज्ञात्वा मत्स्वरूपं राज्ञे निवेदयिष्यति चेत्तदा नृपः सकुलं मां निग्रहीष्यतीति किमप्यनागतमुपायं करोमीति ध्यात्वा निश्येवोपनृपं प्राप्तः, पृष्टोऽनवसरागमहेतुं, छलं मार्गयित्वा ॐ स्माह-व्रताद्भग्नस्ते पितात्रागत्य कुम्भकृगृहे स्थितः, प्रातस्तव राज्यं ग्रहीतेति । तदाकर्ण्य नृपः प्रोचे - पिता चेद्राज्यं लाति तर्हि भाग्यं मे, तत्पादौ सेविष्ये । मन्त्री प्रोचे-नैवं युक्तं, स्वं राज्यं नार्प्यते, वध्यः पितापि विविधयुक्तिभिः, तेन कैतवभृता तदपि प्रतिपादितो नृपः पितुर्वधाय निशीथे खड्गहस्तः कुम्भकुद्नेहं गतः । छिद्रेण पितरं वीक्षते, तावद्यवर्षिणा आद्या गाथा गुणिता । तां श्रुत्वा चिन्तितम् - मत्पित्रा ज्ञानेन ज्ञातोहमितस्ततः पश्यन् । अपि च यद्ययं ज्ञानी तन्मे स्वसुः शुद्धिं वक्त, तावद् द्वितीया गाथा गुणिता तेन, तां श्रुत्वा जातः प्रत्ययः, गुणप्रशंसादि चक्रे । पुनरचिन्ति-मत्स्वसा येन गोपितातन्नाम प्रकाशयतु पिता । तावन्तृतीया गाथा परावर्त्तिता । ततो भग्नसंदेहो हृष्टो द्वारमुद्घाव्यान्तर्गतः । पितरं ज्ञानिनं जिघांसुं स्वं निन्दन्मुदश्रुर्मुनिं नत्वा स्वापराधप्रकटनपरः क्षमितवान्, मुनिमनमेवाकरोत् तदेव हि सर्वार्थसाध
1
Jain Education
For Private & Personal Use Only
5
उपदेशर० तरंग १५
॥ ३९ ॥
w.jainelibrary.org