________________
उपमितौ
प्रस्तावना.
॥२७॥
स्पष्टमुल्लिखद्भिः श्रीमद्भिः स्वाभिजनता भिन्नमालीया निजगदे, श्रीहरिभद्रसूरेरसमानकालीनतायामेतदप्यूहनीयं यतः श्रीमद्धरिभद्रसूरीणां चित्रकूटादिषु स्थैर्य, भिन्नमाले च तदीयां कृति ललितविस्तराख्यां विचारयन्तः स्थिता दुर्गस्वामिन इति तु स्पष्टं प्रन्थकृत्प्रबन्धेषु, ततोऽन्तरेण बहुकालव्यवधान नैतत् घटामञ्चति ६ । प्रश्नयोः सप्तमाष्टमयोः दीक्षादायकाः श्रीमन्तो गर्गर्षयः प्रतिबोधकाः श्रीदुर्गस्वामिनः परमार्थतः श्रीमन्तो हरिभद्रसूरयश्चेत्यनेकशो व्याख्यातमिति न तत्र भूयः प्रयासः, न च शङ्कनीयं "गीर्देवतया विहिताऽमिहिता सिद्धाभिधानेने"ति वाक्येन नास्या विधाता तत्त्वतः सिद्धर्षिः गीर्देवताया एव तद्रचयितृत्वात् , यतो गीर्देवता हि तत्र सरस्वत्येव, सा च सर्वस्यापि वाक्प्रसरस्य विधात्र्येवेति तन्महिमगानं, न तु तेनान्यया कयाचिद् गीर्देवताभिधानया साध्व्याऽन्यया वा विहितेति मन्तव्यं, यद्यपीदानींतनकालवत् न तदानीं साध्वीश्राविकावर्गो मुग्धः, अस्या एव प्रथमादर्शलेखिका यतो गुणाभिधाना आर्यिकैव दुर्गस्वामिशियिका एवं तिलकमचर्यादीनामप्यनेकानां तथाविधानां भावात् तथापि प्रस्तुतकथाविधायकस्तु सिद्धसाधुरेव अत एव च तस्य सिद्धव्याख्यानिकत्वोपालम्भात् ॥ ___ अस्याः प्राकृतसमरादित्यकथानुकारिण्या अपि यत् संस्कृतया गिराभिधानं तत्र जनरुचिरेव कारणं, यतः कविरेव 'संस्कृता तावहुर्विदग्धहृदिस्थिते त्यमिहितवान् , निर्विवादमेतत् यदुतातिप्राचीनशिलालेखानां संस्कृतेतरभाषाणामेवोपलम्भात् प्राचीना प्राकृता तथापि 'यो यथा बुध्यते
जन्तुस्तं तथा बोधयेदिति' इति न्यायं समाश्रित्य सर्वसत्त्वहिताधानायैषा प्रवृत्तिः, युक्तमपीदं यतः कथालक्षणं निबध्नन्तः कलिकालसर्वज्ञाः | श्रीमन्तो हेमचन्द्रसूरय एवमूचुः-"धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा" ततो यथैव प्राकृते कथाबन्धस्तथैव संस्कृतेऽपीति M निबन्धोऽस्याः संस्कृते न दोषभाक्, किंच आख्यायिकाया अयमेव भेदो यत्तस्यां नायकः स्वयं स्ववृत्तान्तं समग्रमाख्याति अस्यां त्वन्यः
॥२७॥
Jain Educat
i
on
For Private & Personel Use Only
www.jainelibrary.org