SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. ॥२७॥ स्पष्टमुल्लिखद्भिः श्रीमद्भिः स्वाभिजनता भिन्नमालीया निजगदे, श्रीहरिभद्रसूरेरसमानकालीनतायामेतदप्यूहनीयं यतः श्रीमद्धरिभद्रसूरीणां चित्रकूटादिषु स्थैर्य, भिन्नमाले च तदीयां कृति ललितविस्तराख्यां विचारयन्तः स्थिता दुर्गस्वामिन इति तु स्पष्टं प्रन्थकृत्प्रबन्धेषु, ततोऽन्तरेण बहुकालव्यवधान नैतत् घटामञ्चति ६ । प्रश्नयोः सप्तमाष्टमयोः दीक्षादायकाः श्रीमन्तो गर्गर्षयः प्रतिबोधकाः श्रीदुर्गस्वामिनः परमार्थतः श्रीमन्तो हरिभद्रसूरयश्चेत्यनेकशो व्याख्यातमिति न तत्र भूयः प्रयासः, न च शङ्कनीयं "गीर्देवतया विहिताऽमिहिता सिद्धाभिधानेने"ति वाक्येन नास्या विधाता तत्त्वतः सिद्धर्षिः गीर्देवताया एव तद्रचयितृत्वात् , यतो गीर्देवता हि तत्र सरस्वत्येव, सा च सर्वस्यापि वाक्प्रसरस्य विधात्र्येवेति तन्महिमगानं, न तु तेनान्यया कयाचिद् गीर्देवताभिधानया साध्व्याऽन्यया वा विहितेति मन्तव्यं, यद्यपीदानींतनकालवत् न तदानीं साध्वीश्राविकावर्गो मुग्धः, अस्या एव प्रथमादर्शलेखिका यतो गुणाभिधाना आर्यिकैव दुर्गस्वामिशियिका एवं तिलकमचर्यादीनामप्यनेकानां तथाविधानां भावात् तथापि प्रस्तुतकथाविधायकस्तु सिद्धसाधुरेव अत एव च तस्य सिद्धव्याख्यानिकत्वोपालम्भात् ॥ ___ अस्याः प्राकृतसमरादित्यकथानुकारिण्या अपि यत् संस्कृतया गिराभिधानं तत्र जनरुचिरेव कारणं, यतः कविरेव 'संस्कृता तावहुर्विदग्धहृदिस्थिते त्यमिहितवान् , निर्विवादमेतत् यदुतातिप्राचीनशिलालेखानां संस्कृतेतरभाषाणामेवोपलम्भात् प्राचीना प्राकृता तथापि 'यो यथा बुध्यते जन्तुस्तं तथा बोधयेदिति' इति न्यायं समाश्रित्य सर्वसत्त्वहिताधानायैषा प्रवृत्तिः, युक्तमपीदं यतः कथालक्षणं निबध्नन्तः कलिकालसर्वज्ञाः | श्रीमन्तो हेमचन्द्रसूरय एवमूचुः-"धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा" ततो यथैव प्राकृते कथाबन्धस्तथैव संस्कृतेऽपीति M निबन्धोऽस्याः संस्कृते न दोषभाक्, किंच आख्यायिकाया अयमेव भेदो यत्तस्यां नायकः स्वयं स्ववृत्तान्तं समग्रमाख्याति अस्यां त्वन्यः ॥२७॥ Jain Educat i on For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy