SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. उपमितौ ॥२६॥ हितत्वेन विशिष्टज्ञानवत्त्वेन स्तवनात् , किंच सप्तमशतकोत्पन्नैः श्रीसिद्धसेनगणिमिस्तत्त्वार्थव्याख्यां कुर्वद्भिः 'संझिनः समनस्का' इति (तत्त्वा० अ० २ सू० २५) सूत्रं व्याकुर्वद्भिः दीर्घकालिक्यैव संज्ञया संज्ञिनां ग्रहणमावश्यकमिति निर्धारयद्भिः श्रीमद्धरिभद्रसूरिनिमिता श्रीनन्दीसूत्रवृत्तिरेव साक्षितया दर्शिता, न चैतदपि सिद्धर्षीणां महांशयानां अभियुक्तानां च श्रीमतां हरिभद्रसूरीणां बहोरन्तरस्याभावे युज्यमानं, ततोऽवधेयमेतत् यदुत श्रीमन्तो हरिभद्राचार्याः पूर्वश्रुतव्यवच्छेदकालस्य समीपकाले सत्ता बभ्रुः श्रीमन्तः सिद्धर्षयश्च वैक्रमीयायां दशमायां शताब्द्यां, तथा च यत्र कचनापि श्रीमतां श्रीमद्धरिभद्रदीक्षितत्वोक्तिः सा तद्न्थजातबोधप्रभावलब्धदीक्षास्थैर्यात् , अत एव च द्वादशशताब्दीपश्चाद्भागोत्पन्नैः श्रीमन्मुनिचन्द्रसूरिभिललितविस्तरायाः पञ्जिकां कुर्वद्भिः "स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौं" इत्यारम्भपद्यावयवेनातिशायितां ललितविस्तराया दर्शयद्भिरुक्तं प्रन्थबोधशिष्टत्वं, हस्तदीक्षितत्वे हि न तथावृत्तस्यातिशायितेति सम्यगवधेयं सुधीभिः, किं च-प्रस्तावे द्वितीये मनुजगतेर्वर्णनां कुर्वाणैः १०५ पृष्ठे 'समरादित्यकथेवानेकवृत्तान्ते'ति दृष्टान्तीकुर्वद्भिर्या समरादित्यकथा दृष्टान्तत्वेनोपात्ता सा हरिभद्रसूरिप्रणीतेति नोभयोः समानकालभवत्वे युज्येत तत् , पुनः यथा श्रीमद्भिहरिभद्रसूरिभिः 'गुणसेण अग्गिसम्मे'त्यादि कमालम्बनीकृत्य व्याकृता समरादित्यकथा तथैवैभिरपि समरादित्यकथामुपश्रित्य कथेयमाविर्भावितेति तत एव चामीषां सिद्धव्याख्यानिकत्वमिति प्रभावकचरित्रीयैतत्प्रबन्धावलोककानां न नूनं, तदेव च "अखिलव्याख्यातृचूडामणिः' इत्यनेन मुनिचन्द्राचार्याः | 'कृतिरियमाचार्यसिद्धव्याख्यानिकस्येति न्यायावतारवृत्तौ स्वयं टीप्पणे च तदीये 'सिद्धव्याख्याता प्रकरणमिदमकरोदित्यादि श्रीमन्तो राजशेखराः सूरयः चकथुः, स्वयमपि प्रस्तावे आये उपक्रमे च स्पष्टमेवाख्यान्ति, परमेतावता प्रबन्धेन तेषां प्राचीनतमताs|भियुक्ततरता च सिद्धिमवाप्नुयादिति निष्टङ्कितं ५ । षष्ठयां च पृच्छायां प्रन्थकृद्भिरेव “यत्रातुलरथयात्रा०" इति पद्यत्रयं प्रशस्तौ ॥२६॥ Jain Educaton Inter For Private & Personel Use Only A njainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy