SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उपमितौबभूव सूरिः कनकप्रभाख्यो, निधिर्गुणानामिह चन्द्रगच्छे ॥११॥ तदीयशिष्यः किल बालचन्द्रसूरेः कवीन्द्रादुदितप्रतिष्ठः। अशोधय द्वोधिविशुद्धयेऽमुं, प्रद्युम्नसूरिविनयोपरुद्धः ॥१२॥ यच्चान्यदप्यत्र निवेशितं स्यादन्यादृशं किञ्चन बुद्धिमान्यात् । अयं निबद्धोऽञ्जलिरस्ति | ॥२५॥ सर्व, तत्साधुभिः साधु निवेशनीयम् ॥ १३ ॥ श्रीविक्रमादित्यनरेन्द्रकालादष्टानवत्ययम सङ्ख्यवर्षे । पुष्याभुकार्तिककृष्णषष्ठयां, सम्पूर्णतामेष समाससाद ॥ १४ ॥ यावन्नौरिव भव्यतारणविधावास्ते भवाम्भोनिधी, श्रीसिद्धेन कृता कथेयमसमाहद्वाक्यकाष्ठोच्चयैः । तावत्तद्गतसत्पदार्थनिचयस्योदञ्चनेऽसौ क्षमा, सारोद्धारकृतिः सदा तदनुगा नौकेव संसर्पतु ॥ १५॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । |शतानि सप्तपञ्चाशत् , त्रिंशत्समधिकान्यहो ॥ १६ ॥ सारोद्धारप्रस्तावनायामप्येवमाहुः-अद्भुतप्रतिभादर्शसंक्रान्ताशेषविष्टपम् ।। नमामि तमहं सिद्धव्याख्यातारं मुनीश्वरम् ॥ ५॥ चक्रे परोपकाराय, परमार्थप्रकाशिनी । उपमित्यभिधा येन, कथाऽद्भुतनिधानभूः ॥ ६॥ संक्षेपरुचिलोकानामुपकाराय साम्प्रतम् । तस्या एव मया कोऽपि, सारोद्धारः प्रतन्यते ॥ ७ ॥ अनेनापि बहोः कालव्यवधानस्य 18 ग्रन्थकृदुक्तेनाक्तिमकालीनेयं, किंच यथा उपमितिसारोद्धारकर्तृभियंधाय्यनुकरणं तथैव साधसप्तदशशताब्दीयश्रीमन्न्यायाचार्यपदो पशोभितश्रीमद्यशोविजयोपाध्यायैः सूक्तमुक्तावल्यां सस्तबकद्वयायां च वैराग्यकल्पलताभिधानायां अमृतहंसमुनिभिर्गद्यमये उपमितिसारे चानुकरणं कृतं ततोऽस्याः प्राचीनतरत्वानुमानं न दुष्करं, न च उपयुक्ततरत्वानुमायां क्लेशलेशः, अत्राभिहितं मनीषिणः लघोजडस्य च बृहतो भ्रातुर्मध्यमस्य वृत्तं द्वादशशताब्दीपाश्चात्यभागोत्पन्नैः श्रीमत्तपोगच्छालङ्करणैः श्रीमद्भिर्देवेन्द्रसूरिभिः श्रीधर्मरत्नं व्याचक्षाणैः सप्तदशे वृद्धानुसारित्वाख्यगुणे किञ्चित्परावर्त्य अत्रत्यमेवोदाहृतं, न च तथानुकरणेनोदाहृतिः तत्कर्तुरभियुक्ततरत्वाभावे प्राचीनत्वाभावे च, नच वाच्यं हरिभद्रसूरिरक्तिनकालीनो यतोऽमी तद्धस्तदीक्षिताः प्रस्तुतग्रन्थग्रन्थयितारः, प्रन्थकृद्भिरेव तेषां कालव्यव IC॥२५॥ उ. भ. ३ Jain Education For Private 3 Personal Use Only Jw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy