________________
उपमितौ
॥२३॥
SAROSCORLSROSSEX
गर्भ च, यत् किश्चिदिह वक्ष्यते । तत्रोपमितिग्रन्थोक्ता, दृश्या सर्वापि भावना ॥१॥” इत्यनेन खोपज्ञपुष्पमालाबृहद्वृत्तिगतलेखेन घ8 प्रस्तावना. स्पष्टमेव प्रामाण्यानुगतत्वमुपर्युक्तस्य, ततो मलधारगच्छीयश्रीमद्धेमचन्द्रसूर्यन्तःकरणरमणकारिणीं वर्षत्रितयीं श्राव्यां च कथां चक्राणाः कथङ्कारं न स्युरखण्डपाण्डित्यताण्डवाडम्बरा इति स्वयमूर्ख सुधीभिः ४। __ पञ्चमे तु पर्यनुयोगेऽनिगूहितमेवाचष्टे ग्रन्थकृत् अस्यैव प्रशस्तौ यदुत "संवत्सरशतनवके द्विषष्टिसहितेऽतिलबिते चास्याः । ज्येष्ठे || सितपञ्चम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥ १॥” ततो दशम्येव शताब्दी आधारभूताऽस्य कविवरस्य, न च वाच्यं नायं वैक्रमोद गदितः संवत्सरः किन्तु गुप्तसंवत्सरादीति, यतः एकादशशताब्द्यां ये ये श्रीमन्तोऽभयसूर्याद्या जाता ग्रन्थकारास्ते वैक्रममेव हायनं निरदिक्षुः स्वस्वकृती, यत्र च कचनापि भिन्नो निर्देश्यः संवत्सरस्तत्र तत्प्रवर्तकनाम्नैव स्पष्ट उल्लेखः, किंच वैक्रमे त्रिनवत्यधिकैकादशशतके 'वक्खाणिया सहाए पाएण ण केणई चिरं कालं' इति वदन्तः श्रीचन्द्रसूरयो मुनिसुव्रतस्वामिवृत्तमाख्यायन्तः प्रकटमेवाख्यान्ति यत् अस्मद्गुरुमिः श्रीमलधारगणालङ्करणैः श्रीहेमचन्द्रसूरिभिर्यावन्न व्याख्याय्येषा तावत् चिरकालीनापि कथोपमितिभवप्रपञ्चाख्याऽप्रसृतैवासीत् , तथा च नार्वा| कालोऽस्याः कल्पयितुं शक्यः, शतकादिमात्रे कालेऽप्रसृतौ किमपिन तथाविधं स्यादेव वाच्यं, कथमेव तु चिरकालेनापि अप्रसृतताभिधानं ?, तथा साधैंकादशशताब्द्याः प्राक् चिरतरताऽनुपपत्तेर्योग्योऽयमेवास्याः कालः, अन्यच्च पूर्वप्रतिपादितात् प्रभावकचरित्रोदन्तात् स्पष्टतरमेवैतत् यदुत श्रीमन्तः सिद्धर्षयः श्रीमता माघकवीनां पितृव्यपुत्राः, माघश्च विद्वद्वर्यः सार्धदशशताब्द्याः नाक्तिमः, यतः प्राप्तानवद्यबोधा धनपालकवयः तिलकमलरीकथामाविष्कुर्वाणा माघकविं स्तौति, तामेव च तिलकमलरी प्राचीनतयाख्यान्ति श्रीमन्तः कलिकालसर्वज्ञाः ||
॥२३॥ काव्यानुशासने "प्राज्यप्रभावः प्रभवो, धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान, आद्योऽन्येऽपि जिना मुदम् ॥१॥” इति तिलकम जो
SISSARISSA*
Jain Educat
onal
For Private & Personal Use Only
Xiwww.jainelibrary.org