SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ २१ ॥ | विद्याधरकुलनभस्तलश्रीमज्जिनदत्तोपदेशामृतपानपुष्टाः, स्पष्टं चैतत् आवश्यकवृत्त्याद्यवलोककानां लब्धबोधाः श्रीमन्तो ललितविस्तराया अवलोकनात् यतस्तत एवानेकत्र 'हृदि यद् ओष्ठयोस्तकत्' इति नीतिमनुकुर्वन्त इव ललितविस्तरादण्डकानखिलान् तथास्थानेव तत्र तत्र प्रतिपादयाञ्चक्रुः, यतः अत्र ३२३ पृष्ठे विचक्षणसूरिदेशनायां यत् 'प्रदीप्तभवनोदरकल्पोऽयं भव' इत्यतः 'तस्मादत्रैव यतध्वं यूयं' इत्यन्तः ग्रन्थः गृहस्थधर्म च प्रतिपादयन्तः ६४० पृष्ठे यत् परिहर्त्तव्योऽकल्याणमित्रयोगः' इत आरभ्य 'वर्त्तितव्यमुत्तमज्ञातेन' इति पर्यन्तं च प्रन्थमुदाजहार तत् प्रायशोऽक्षरशः ललितविस्तरावृत्तिगतं क्रमेण ४६ पत्रे ११६ पत्रे च सम्यगीक्ष्यते, तदियता प्रपश्चेन ज्ञातेन सुनिर्णयमेतत् यदुत श्रीमन्तः सिद्धर्षयो निर्वृत्तिकुलीन दुर्गस्वामिपट्टपूर्वाचलार्यमाभस्य सद्दर्षेः शिष्याः श्रीमद्भ्यो दुर्गस्वामिभ्योऽवाप्तबोधाः श्रीगर्गर्षिभिः प्राचीनकर्मविपाकविवरीतृमिर्दीक्षिताः प्रचुरकालव्यवहितश्रीमत्सूरिपुरन्दरहरिभद्रसूरिप्रथितललितविस्तरावलोकजातविवेकलोचनोन्मेषतया धर्मबोधकरगुरुतालङ्कृतश्रीहरिभद्राचार्याः, अत एव चात्रानुकरणं शतशो ललितविस्तरागतानां दण्डकानां चक्रुः, विलोकनीयतमाञ्चैतेऽपि दण्डका मुमुक्षूणां स्वपरिणामावनामोन्नामप्रेक्षकाणामिि " इति चिह्नाङ्किताः कृता अत्र मुद्रणे, तत एव भिन्ना अपि ते परिणाममालातयोद्धृत्य पृथग् मुद्रिताः सहृदयहृदयानामनल्पभावोल्लासायेति न नूनं किञ्चित्, अनुकरणेन च तादृशानामनेकानां दण्डकरत्नानामत्र समावेशात् पुरुषोत्तमानां कविवराणां कादम्बर्यादिवत् वस्तुस्वरूपबोधने प्रत्यलोऽयं ग्रन्थः, किश्च अत्र बालोपयोगिनो युवोपयोगिनो वृद्धोपयोगिनो राजकुमारोपयोगिनो राजोपयोगिनो योग्युपयोगिन आयुर्वेदोपयोगिनो धनुर्वेदोपयोगिनो ज्योतिष्कोपयोगिनो सामुद्रिकोपयोगिनो गृहस्थधर्मोपयोगिनो भर्नुपयोगिनो वधूपयोगिनो कामोपयोगिनः कलोपयोगिनो देशाटनोपयोगिनो युद्धोपयोगिनः सन्ध्युपयोगिनः क्रीडोपयोगिनः सभोपयोगिनोऽमात्योपयोगिनः सेनाधिपोपयोगिनः चर "C Jain Education Interna For Private & Personal Use Only प्रस्तावना. ॥ २१ ॥ jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy