SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उपमितौ शतिवेलायां गुरुमिश्विन्ति-मा वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूयात् , पुरापि २१ वारं वादैर्जितोऽसौ प्रस्तावना. ... अधुना वादेनालं, ललितविस्तराख्या चैत्यवन्दनावृत्तिः सतर्का कृता, तदागमे पुस्तिका पाठपीठे मुक्त्वा गुरवो बहिरगुः, तत्पुस्तिकापरा-12 ॥२०॥ मर्शाद् बोद्धा सम्यक् , ततस्तुष्टौ निश्चलमनाः प्राह-"नमोऽस्तु हरिभद्राय, तस्मै प्रवरसूरये। मदर्थ निर्मिता येन, वृत्तिललितविस्तरा॥१॥" * ततो मिथ्यात्वनिर्विण्णेन सिद्धर्षिणा १६ सहस्रा उपमितिभवप्रपञ्चा कथा अरचि श्रीमाले घिसिमण्डपे, सा च सरस्वत्या साध्या अशोधि।" ___ ननु श्रीमन्तो हरिभद्राचार्याः शुभवतां सिद्धर्षीणां बोधका न चोपदेशका न च दीक्षादायका नैव च दीक्षागुरवः तत् कथंकारं ते धर्मबोधकरा गुरव इति चेन्न, यतः ग्रन्थकारा एव यदि स्वमुखेनैव सूरिवराणां स्वधर्मबोधकरगुरुतां ज्ञापयन्ति स्पष्टं | वदन्ति च तर्हि प्रश्नोऽयं भवदीयः कथं शीता आपः कथं वोष्णो वह्निरिति स्वभावपर्यनुयोगवत् निरवकाश एव, युक्तिस्तु श्रीमन्तो बोधादिकमाप्ताः श्रीमहुर्गस्वामिप्रभृतिभ्यः परं “यां बुद्धा किल सिद्धसाधुरखिलव्याख्यातचूडामणिः, संबुद्धः सुगतप्रणीतसमयाभ्यासाचलच्चेतनः । तत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौ, को ह्येनां विवृणोतु नाम विवृतिं स्मृत्यै तथाप्यात्मनः ॥१॥” इति विक्रमद्वादशशताब्दीयश्रीमन्मुनिचन्द्रप्रणीतात् ललितविस्तरापलिकाया वचनात् अत एव 'का स्पर्धा समरादित्यकवित्वे पूर्वलरिणे तिवचसः संगतिः 'अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदथैव कुता येन, वृत्तिर्ललितविस्तरा ॥१॥” इति प्रस्तुतग्रन्थप्रशस्तिवा-3 क्यतश्च श्रद्धाचलनमवापुः बोधं च श्रीहरिभद्रीयललितविस्तरावलोकनात्, युक्तं चावाप्य पुनः श्रद्धां तानेव गुरून गुणगुरून् स्वगुरुतया ४ है स्वीकर्तुः कृतज्ञपतित्वं, द्वयोर्भिन्नकालीनत्वे एतदपि ज्ञापकं 'तत्कर्तु रित्यादि, व्यवहारभाष्यादौ आभाव्यव्यवहारे गतश्रद्धस्य श्रद्धाकारककास्यैवाभाव्यव्यवहारात्, किंच सिद्धर्षयो हि निवृत्तिकुलालङ्करणाः श्रीमन्तो हरिभद्राश्च नागेन्द्रकुलाम्बरनभोमणिश्रीमज्जिनभटशिष्याः Jain Education For Private Personel Use Only janelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy