SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥ १७ ॥ Jain Education Int १३६ ॥ तदङ्गिरजसा मौलिं, पावयिष्येऽधुनाऽनिशम् । आगः स्वं कथयिष्यामि, गुरुः स्यान्न ह्यनीदृशः ॥ १३४ ॥ तथागतमतिभ्रान्तिर्गता मे प्रन्थतोऽमुतः । कोद्रवस्य यथा शस्त्राघाततो मदनभ्रमः ॥ १३५ ॥ एवं चिन्तयतस्तस्य, गुरुर्बाह्यभुवस्ततः । आगतस्तादृशं पश्यन् पुस्तकस्थं मुदं दधौ ॥ नैषेधिकीमहाशब्द, श्रुत्वोर्ध्वः सम्भ्रमादभूत् । प्रणम्य रूक्षयामास, शिरसा तत्पदद्वयम् ॥ १३७ ॥ उवाच किंनिमित्तोऽयं, मोहस्तव मयि प्रभो ! । कारयिष्यन्ति चैत्यानि, पश्चात्किं मादृशोऽधमाः ॥ १३८ ॥ उन्मीला दूषका स्फोटस्फुटवेदनविद्रुहः । स्वादविघ्नाश्चला दन्ताः, कुशिष्याश्च गताः शुभाः ॥ १३९ ॥ आहूतो मिलनव्याजाद्, बोधायैव ध्रुवं प्रभो ! । हारिभद्रस्तथा प्रन्थो, भवता विदधे करे ॥ १४० ॥ भग्नभ्रमः कुशास्त्रेषु, प्रभुं विज्ञपये ततः । स्वस्यान्तेवासिपाशस्य, पृष्ठे हस्तं प्रदेहि मे ॥ १४१ ॥ देवगुर्वाद्यवज्ञोत्थमहापापस्य मे तथा । प्रायश्चित्तं प्रयच्छाद्य, दुर्गतिच्छित्कृपां कुरु ॥ १४२ ॥ अथोवाच प्रभुस्तत्र, करुणाशरणाशयः । आनन्दाश्रुपरिश्रुत्या, परिक्किन्नोत्तरीयकः ॥ १४३ ॥ मा खेदं वत्स ! कार्षीस्त्वं, को वनीवच्यते नवा । पानशौण्डैरिवाभ्यस्त कुतर्कमदविह्वलैः १ ॥ १४४ ॥ नाहं त्वां धूर्तितं मन्ये यद्वचो विस्मृतं न मे । मदेन विकलः कोऽपि त्वां विना प्राक्श्रुतं स्मरेत् ? ॥ १४५ ॥ वेषादिधारणं तेषां, विश्वासायापि सम्भवेत् । अतिभ्रान्ति च नात्राहं, मानये तव मानसे ॥ १४६ ॥ प्रख्यातव कृ कप्रज्ञज्ञातशास्त्रार्थमर्मकः । कः शिष्यस्त्वादृशो गच्छेऽतुच्छे मञ्चित्तविभ्रमः ॥ १४७ ॥ For Private & Personal Use Only प्रस्तावना. ॥ १७ ॥ jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy