SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. S4555555 गत्वाऽथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्थानशुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२१ ॥ गर्गस्वामी व्यमृक्षञ्च, संजज्ञे तदिदं क(फ)लम् । अनिमित्तस्य जैनी वाग, नान्यथा भवति ध्रुवम् ॥ १२२ ।। अस्माकं ग्रहवैषम्यमिदं जज्ञे यदीदृशः । सुविनेयो महाविद्वान् , परशाखप्रलम्भितः ॥ १२३ ॥ तदुपायेन केनापि, बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः ॥ १२४॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽर्पिता । चैत्यवन्दनसूत्रस्य, वृत्तिर्ललितविस्तरा ॥ १२५ ॥ ऊचुश्च यावदायामः, कृत्वा चैत्यनतिं वयम् । ग्रन्थस्तावदयं वीक्ष्य, इत्युक्त्वा तेऽगमन् बहिः ॥ १२६ ॥ ततः सिद्धश्च तं ग्रन्थं, वीक्षमाणो महामतिः । व्यमृशत्किमकार्य तन्मयाऽऽरब्धमचिन्तितम् ? ॥ १२७ ॥ कोऽन्य एवंविधो मागविचारितकारकः । स्वार्थभ्रंशैः पराख्यानैर्मणि काचेन हारयेत् ॥ १२८ ॥ महोपकारी स श्रीमान् , हरिभद्रप्रभुर्यतः । मदर्थमेव येनासौ, ग्रन्थोऽपि निरमाप्यत ॥ १२९ ॥ आचार्यो हरिभद्रो मे, धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त, स एवाद्ये निवेशितः ॥ १३०॥ अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदर्थ निर्मिता येन, वृत्तिर्ललितविस्तरा ॥ १३१ ॥ विषं विनिर्धूय कुवासनामयं, व्यचीचर(रीरच)द्यः कृपया मदाशये। अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १३२ ॥ किं कर्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकर्तुं त्वाह्वयन्मिघात् ॥ १३३ ॥ ॥१६॥ Jain Education For Private & Personel Use Only (shww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy