SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. S4555555 गत्वाऽथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्थानशुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२१ ॥ गर्गस्वामी व्यमृक्षञ्च, संजज्ञे तदिदं क(फ)लम् । अनिमित्तस्य जैनी वाग, नान्यथा भवति ध्रुवम् ॥ १२२ ।। अस्माकं ग्रहवैषम्यमिदं जज्ञे यदीदृशः । सुविनेयो महाविद्वान् , परशाखप्रलम्भितः ॥ १२३ ॥ तदुपायेन केनापि, बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः ॥ १२४॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽर्पिता । चैत्यवन्दनसूत्रस्य, वृत्तिर्ललितविस्तरा ॥ १२५ ॥ ऊचुश्च यावदायामः, कृत्वा चैत्यनतिं वयम् । ग्रन्थस्तावदयं वीक्ष्य, इत्युक्त्वा तेऽगमन् बहिः ॥ १२६ ॥ ततः सिद्धश्च तं ग्रन्थं, वीक्षमाणो महामतिः । व्यमृशत्किमकार्य तन्मयाऽऽरब्धमचिन्तितम् ? ॥ १२७ ॥ कोऽन्य एवंविधो मागविचारितकारकः । स्वार्थभ्रंशैः पराख्यानैर्मणि काचेन हारयेत् ॥ १२८ ॥ महोपकारी स श्रीमान् , हरिभद्रप्रभुर्यतः । मदर्थमेव येनासौ, ग्रन्थोऽपि निरमाप्यत ॥ १२९ ॥ आचार्यो हरिभद्रो मे, धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त, स एवाद्ये निवेशितः ॥ १३०॥ अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदर्थ निर्मिता येन, वृत्तिर्ललितविस्तरा ॥ १३१ ॥ विषं विनिर्धूय कुवासनामयं, व्यचीचर(रीरच)द्यः कृपया मदाशये। अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १३२ ॥ किं कर्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकर्तुं त्वाह्वयन्मिघात् ॥ १३३ ॥ ॥१६॥ Jain Education For Private & Personel Use Only (shww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy