SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. ॥१५॥ ACCORRECANAGAR रजोहरणमस्माकं, बताशं नः समर्पयेः । इत्युक्त्वा मौनमातिष्ठद्गुरुश्चित्तव्यथाधरः ॥ १०७ ॥ प्राह सिद्धः श्रुती च्छादयित्वा शान्तं हि कल्मषम् । अमङ्गलं प्रतिहतमकृतज्ञः क ईदृशः ॥१०८ ॥ चक्षुरुद्घाटितं येन, मम ज्ञानमयं मुदा । पुनस्तद् ध्यामयेत्को हि, धूमायितपरोक्तिभिः ॥ १०९ ॥ अन्त्यं वचः कथं नाथ!, मयि पूज्यैरुदाहृतम् । कः कुलीनो निजगुरुक्रमयुग्मं परित्यजेत् ॥ ११ ॥ मनः कदापि गुप्येत, चेद्धत्तूरभ्रमादिव । तथापि प्रभुपादानामादेशं विदधे ध्रुवम् ॥ १११ ॥ दुरध्येयानि बौद्धानां, शास्त्राणीति श्रुतश्रुतिः । खप्रज्ञायाः प्रमाणं तद्, लप्स्ये तद्गुपिलाध्वनि ॥ ११२ ॥ इत्युदित्वा प्रणम्याय, स जगाम यथेप्सितम् । महाबोधाभिधं बौद्धपुरमव्यक्तवेषभृत् ।। ११३ ॥ कुशाग्रीयमतेस्तस्यालेशेनापि प्रबोधतः । विद्वदुर्भेदशास्त्राणि, तेषामासीच्चमत्कृतिः ॥ ११४ ।। तस्याङ्गीकरणे मन्त्रस्तेषामासीहुरासदः । तमस्युद्योतको रत्नमाप्य माध्यस्थ्यमाश्रयेत् ॥ ११५ ॥ तादृग्वचःप्रपञ्चैस्तैर्वर्द्धकैर्गर्द्धकैरपि । तं विप्रलम्भयामासुर्मीनवद्धीवरा रसात् ॥ ११६ ॥ शनैर्धान्तमनोवृत्तिर्बभूवासौ यथा तथा । तदीयदीक्षामादत्त, जैनमार्गातिनिःस्पृहः ॥ ११७ ।। अन्यदा तैर्गुरुत्वेऽसौ, स्थाप्यमानोऽवदन्ननु । एकवेलं मया पूर्वे, संवीक्ष्या गुरवो ध्रुवम् ॥ ११८ ।। इति प्रतिश्रुतं यस्मात्तदने तत्प्रतिश्रवम् । सत्यसन्धस्त्यजेत्तत्कस्तत्र प्रहिणुताथ माम् ॥ ११९ ॥. इति सत्यप्रतिज्ञत्वमतिचारु च सौगते । मन्यमानास्ततः प्रैपुः, स चागाद्गुरुसन्निधौ ॥ १२० ॥ SAMRACTROMCHACHCARROCOCOCCA ॥१५॥ Jain Educational For Private & Personel Use Only Alaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy