SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना ॥१४॥ EXAMRODAMADARASAAR अथ सिद्धकविः प्राह, मनो दूनोषि नो खरम् । वयोऽतिक्रान्तपाठानामीदृशी कविता भवेत् ।। ९३ ॥ का स्पर्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण, मादृग्मन्दमतेरिह ॥ ९४ ॥ इत्थमुद्वेजितस्यान्तस्तेनासौ निर्ममे बुधः । अन्यदुर्बोधसम्बद्धां, प्रस्तावाष्टकसम्भृताम् ॥ ९५ ॥ रम्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकथितां विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥ युग्मम् । प्रन्थं व्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतःप्रभृति सङ्घोऽत्र, व्याख्यातृविरुदं ददौ ॥ ९७ ॥ दर्शिताऽथास्य तेनाथ, हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं, त्वद्गुणाय मयोदितम् ।। ९८॥ ततो व्यचिन्तयत्सिद्धो, ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९ ॥ तर्कग्रन्था मयाऽधीताः, स्वपरेऽपीह ये स्थिताः । बौद्धप्रमाणशास्त्राणि, न स्युस्तद्देशमन्तरा ॥ १० ॥ आपप्रच्छे गुरुं सम्यग् , विनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु, गमनायोन्मनायितः ।। १०१ ॥ निमित्तमवलोक्याथ, श्रौतेन विधिना ततः । सवात्सल्यमुवाचाथ, नाथः प्राथमकल्पिकम् ।। १०२ ॥ असन्तोषः शुभोऽध्याये, वत्स! किञ्चिद्वदामि तु । सत्यमत्र न सत्त्वानां, समये प्रमये धियाम् ॥ १०३ ॥ भ्रान्तं चेतः कदापि स्याहेत्वाभासैस्तदीयकैः । अर्थी तदागमश्रेणेः, स्वसिद्धान्तपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य, नाशं त्वं प्राप्यसि ध्रुवम् । निमित्तत इदं मन्ये, तस्मान्माऽत्रोद्यमी भव ।। १०५॥ युग्मम् । अथ चेदवलेपस्ते, गमने न निवर्त्तते । तथापि मम पार्श्व त्वमागा वाचा ममैकदा ॥ १०६ ॥ विधिनाचवदामि तु । सत्यागमणेः, खसिद्धान्तावमी भव *2562 in Education For Private Personal use only Jorjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy