SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उपमितौ *** प्रस्तावना. ॥१३॥ * * इति निर्बन्धतस्तस्य, तथा चक्रे शुभकरः । गुरुः प्रादात्परिव्रज्यां, तस्य पुण्ये स्वरोदये ।। ८१ ॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पञ्चमहाब्रतारोपणपर्वणि ॥ ८२॥ दिग्बन्धं श्रावयामास, पूर्वतो गच्छसन्ततिम् । सत्प्रभुः शृणु वत्स! त्वं, श्रीमान् वज्रप्रभुः पुरा ॥ ८३ ।। तच्छिष्यवनसेनस्याभूद्विनेयचतुष्टयी । नागेन्द्रो निर्वृतिश्चन्द्रः, ख्यातो विद्याधरस्तथा ॥ ८४॥ आसीन्निवृतिगच्छे च, सुराचार्यों धियां निधिः । तद्विनेयश्च गर्गपिरहं दीक्षागुरुस्तव ॥ ८५ ॥ शीलाङ्गानां सहस्राणि, त्वयाऽष्टादश निर्भरम् । वोढव्यानि विविश्राममामिजात्यफलं ह्यदः ॥ ८६ ।। ओमिति प्रतिपद्याथ, तप उग्रं चरन्नसौ । अध्येता वर्तमानानां, सिद्धान्तानामजायत ॥ ८७ ॥ स चोपदेशमालाया, वृत्ति बालावबोधिनीम् । विदधेऽवहितप्रज्ञः, सर्वज्ञ इव गीभरैः॥ ८८॥ सूरिर्दाक्षिण्यचन्द्रा(चिह्ना)ख्यो, गुरुभ्राताऽस्ति तस्य सः । कथां कुवलयमाला, चक्रे शृङ्गारनिर्भराम् ॥ ८९ ॥ किञ्चित्सिद्धकृतग्रन्थसोत्प्रासः सोऽवदत्तदा । लिखितैः किं नवैर्ग्रन्थैस्तदवस्थागमाक्षरैः ॥ ९ ॥ शास्त्रं श्रीसमरादित्यचरितं कीर्त्यते भुवि । यद्रसोर्मिप्लुता जीवाः, क्षुत्तृडाद्यं न जानते ॥ ९१ ॥ अर्थोत्पत्तिरसाधिक्यसारा किञ्चित्कथापि मे । अहो ते लेखकस्येव, प्रन्थः पुस्तकपूरणः॥ ९२ ॥ * * * * ॥१३॥ १चिन्त्यमेतत् यतः खयमेव सिद्धर्षयः खसत्तासमयं द्विषष्ट्यधिकं नवमशतकं आख्यान्ति कुवलयमालाकारा अपि शकनृपसप्तशतीं, न चैवं परस्परं हास्य नयुकं वाचंयमाना, अन्यच उपदेशमालावृत्तावपि हरिभद्राणां धर्मबोधकरता ज्ञापितेति न सोपमितिकरणकालात् वृत्तादस्साच प्राक् । Jain Education Intel For Private Personal Use Only Amjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy