SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. ॥११॥ अस्मद्वेषं विना नैवास्मत्पार्श्वे स्थीयतेतराम् । सदा खेच्छाविहाराणां, दुम्रहः स भवादृशाम् ॥ ५३ ॥ धार्य ब्रह्मव्रतं घोरं, दुष्करं कातरैर्नरैः । कापोतिका तथा वृत्तिः, समुदानापरामिधा ॥ ५४॥ दारुणः केशलोचोऽथ, सर्वाङ्गीणव्यथाकरः । सिकतापिण्डवञ्चायं, निरास्वादश्च संयमः ॥ ५५ ॥ उच्चावचानि वाक्यानि, नीचानां ग्रामकण्टकाः । सोढव्या दशनैश्चर्वणीया लोहमया यवाः ॥ ५६ ॥ उग्रं षष्ठाष्टमायं तत्तपः कार्य सुदुष्करम् । स्वाद्यास्वाद्येषु लब्धेषु, रागद्वेषौ न पारणे ।। ५७ ॥ इत्याकावदत्सिद्धो, मत्सदृग्व्यसनस्थिताः । छिन्नकोष्ठनासादिबाहुपादयुगा नराः॥ ५८ ॥ क्षुधाकरालिता भिक्षाचौर्यादेर्वृत्तिधारिणः । अप्राप्तशयनस्थानाः, पराभूता निजैरपि ॥ ५९ ॥ नाथ ! किंतवस्थाया, अपि किं दुष्करो भवेत् । संयमो विश्ववन्द्यस्तन्मूर्ध्नि देहि करं मम ॥ ६० ॥ त्रिमिर्विशेषकम् । यददत्तं न गृहीमो, वयं तस्मात्स्थिरो भव । दिनमेकं यथाऽनुज्ञापयामः पैतृकं तव ॥ ६१ ॥ ततः प्रमाणमादेश, इत्युक्त्वा तत्र सुस्थिते । पर हर्ष दधौ सूरिः, सुविनेयस्य लाभतः ॥ ६२ ॥ इतः शुभङ्करश्रेष्ठी, प्रातः पुत्रं समाह्वयत् । शब्दादाने च सम्भ्रान्तोऽपश्यत् पत्नी नताननाम् ॥ ६३ ॥ अद्य रात्रौ कथं नागात्सिद्ध इत्युदिता सती । लज्जानम्राऽवदद् द्यूतीशिक्षितोऽथ सुतो ययौ ॥ ६४ ॥ श्रेष्ठी दध्यौ महेलाः स्युरुत्तानधिषणा ध्रुवम् । न कर्कशवचोयोग्यो, व्यसनी शिक्ष्यते शनैः ।। ६५ ।। ईषत्करं ततः प्राह, प्रिये! भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र, वणिजां नोचितं ह्यदः ॥ ६६ ॥ RECRUICCCMSROOMSACROCOCC ॥११॥ Jain Educator For Private & Personel Use Only VMw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy