SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. ॥७६८॥ धनेश्वरायाचार्यपददानं मन्तभद्राख्या, हित्वा खं देहपचरम् । ते सूरयः शिवं प्राप्ताः, कृतकृत्या महाधियः ॥ ९२० ॥ अथावाप्तावधिज्ञानो, मनःपर्यायसंयुतः ।। जातः स पौण्डरीकाख्यः, सूरिः शासनदीपकः ॥ ९२१ ॥ स भव्यपौण्डरीकाणां, सूर्यवद्देशनांशुभिः । विजहार हरन्निद्रां, महामोहतमोमयीम् ॥ ९२२ ॥ अपरापरदेशेषु, सुचिरं मुनिचर्यया । विहृत्य शिष्यवर्ग च, निष्पाद्य गुणभूषितम् ॥ ९२३ ॥ दानशीलतपोभावधर्मयामचतुष्टयम् । पालयित्वा दिनाकारं, प्रकाश्य जिनशासनम् ॥ ९२४ ॥ विज्ञायायुष्कपर्यन्तं, पौण्डरीकदिवाकरः । ततः संलेखनाव्याज, सन्ध्यारागं चकार सः ॥ ९२५ ॥ त्रिभिर्विशेषकम् । स्वस्थाने स्थापितस्तेन, सूरिः स्वभ्यस्तसक्रियः । साधुर्धनेश्वरो नाम, निःशेषागमपारगः ॥ ९२६ ॥ ततस्तं विहितानुज्ञं, पुरस्कृत्य धनेश्वरम् । आचार्य निजगच्छं च, सोऽनुशिष्टिं ददाविमाम् ॥ ९२७ ॥ "धन्यस्त्वं येन विज्ञातः, संसारगिरिदारकः । वज्रवदुर्भिदश्चायं, महाभाग! जिनागमः ॥ ९२८ ॥ इदं चारोपितं यचे, पदं सत्सम्पदा “पदम् । अत्युत्तममिदं लोके, महासत्त्वनिषेवितम् ॥ ९२९ ॥ धन्येभ्यो दीयते तात!, धन्या एवास्य पारगाः । गत्वाऽस्य पारं ते |"धन्याः, पारं गच्छन्ति संसृतेः ।। ९३० ।। भीतं संसारकान्तारात्समर्थस्य विमोचने । साधुवृन्दमिदं सर्व, भवतः शरणागतम् ॥९३१॥ | "संप्राप्य गुणसन्दोहं, निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां, धन्याः कुर्वन्ति देहिनाम् ॥ ९३२ ॥ तदेते भावरोगार्तास्त्वं च भाव "भिषग्वरः । अतस्त्वयाऽमी सज्जीवा, मोचनीयाः प्रयत्नतः ॥ ९३३ ॥ गुरुश्च मोचयत्येतानप्रमत्तो हितोद्यतः । बद्धलक्षो मुडं मोक्षे, | "निःस्पृहो भवचारके ॥ ९३४ ॥” कल्पोऽयमितिकृत्वा त्वमीदृशोऽयं प्रचोदितः । निजावस्थानुरूपं हि, चेष्टितव्यं सदा त्वया ॥९३५॥ अनुशिष्टिं विधायेत्थं, सूरेस्तस्य कृतानतेः । सूरयः पौण्डरीकाख्याः, प्राहुः शिष्यगणं ततः ॥ ९३६ ॥ "युष्माभिरपि नैवैष, सुस्थबोहि"त्थसन्निभः । संसारसागरोत्तारी, न मोक्तव्यः कदाचन ॥ ९३७॥ प्रतिकूलं न कर्तव्यमनुकूलतः सदा।भाव्यमस्य गृहत्यागो, येन वः ह, निर्मलं पारमेश्वरम् । प्रायः प्रयत्नतः ॥ ९३३ ॥ | निजाब Jain Education in For Private & Personel Use Only injainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy