SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ S उपमितौ अ. अ. ॥७६७॥ AUGARCA "तस्यापाये पुनः पुंसां, सद्बुद्धेर्गोचरं गते । अत्र सद्दर्शने नूनं, भेदबुद्धिर्निवर्तते ॥९०२॥ आत्मा साधारणो ह्येष, सर्वेषामपि वादिनाम् । "समलो न विजानीते, मोक्षमार्ग यथास्थितम् ।। ९०३ ॥ मलक्षये पुनस्तस्य, मोक्षमार्गो यथास्थितः । यत्र तत्र स्थितस्यापि, हठादेष प्र"काशते ॥ ९०४ ॥ ततश्चेदं विनिश्चित्य, दर्शनं पारमार्थिकम् । स मुञ्चेदाग्रहं स्वीयं, तथा चोक्तं मनीषिभिः ।। ९०५ ॥ रिक्तस्य जन्तो"र्जातस्य, गुणदोषानपश्यतः । विलब्धा बत केनामी, सिद्धान्तविषमग्रहाः ॥ ९०६ ॥ अहं चारुरचारुस्त्वं, मदीयं चारु दर्शनम् । न "त्वदीयमिति स्पष्टं, मत्सरस्य विजृम्भितम् ॥ ९०७॥ किं बहुना?-यावन्तो देहिनो लोके, यथावस्थितदृष्टयः । ते सर्वेऽप्यत्र वर्तन्ते, "तात्त्विके शुद्धदर्शने ॥ ९०८ ॥ निर्नष्टममकारास्ते, विवादं नैव कुर्वते । अथ कुर्युस्ततस्तेभ्यो, दातव्यैवैकवाक्यता ॥ ९०९ ॥ ये त्वक्षी"णमलत्वेन, विपरीतविलोकिनः । स्वतीर्थ व्यापकत्वेन, संगिरन्ते समत्सराः ॥ ९१० ॥ तेषां जात्यन्धकल्पानामपकर्णनमुत्तरम् । अथवा "तत्त्वमार्ग ते, बोधनीयाः प्रयत्नतः ॥ ९११ ॥ युग्मम् । न मोहदलनादन्यो, ह्युपकारो महत्तमः । अतो यदुक्तं भवता यदुत| "स्वतीर्थ व्यापि चेत्तीर्थ्या, युस्तत्र किमुत्तरम् ? । तदिदं ते मयाऽऽख्यातं, प्रतिघातविवर्जितम् ॥ ९१२ ॥ यावदृष्टिविवादाङ्गे, निःशेष"नयसागरे । कुदृष्टिसरितः सर्वाः, पतन्तीक्ष्यसि स्फुटम् ॥ ९१३ ॥ तावत्ते सर्वसन्देहा, यास्यन्ति प्रलयं तदा । ज्ञास्यसि त्वं यथा "नास्ति, सर्वज्ञवचनात्परम् ॥ ९१४ ॥ युग्मम् ।” ततो निर्नष्टसन्देहः, प्रपद्य गुरुभाषितम् । संजातः पौण्डरीकोऽसौ, विशेषागमतत्परः ॥ ९१५ ॥ कालक्रमेण संपन्नो, द्वादशाङ्गस्य पारगः । समन्तभद्रसूरीणामसौ पादप्रसादतः ।। ९१६ ॥ अनन्तगमपर्यायः, सातिशेषः सविस्तरः । सर्वज्ञागमसद्भावः, सर्वोऽस्य मनसि स्थितः ।। ९१७ ॥ ततोऽनुयोगोऽनुज्ञातः, सगच्छस्तस्य सूरिभिः । दत्तमाचार्यकं स्वीयं, कृतमानृण्यमात्मनः ॥ ९१८ ॥ आचार्यस्थापनायां च, तस्यामरनरैर्मुदा । कृता विधानतो देवसङ्घपूजा दिनाष्टकम् ॥ ९१९ ॥ ततः स-15 द्वादशाङ्गीपारगामिता ७६७ ॥ Jain Education Inte ? For Private & Personel Use Only IR hinelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy