SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥७६६॥ “सत्त्वं, हेतुः संसारदुःखयोः । तदेव विमलं वीर्य, कारणं सुखमोक्षयोः ।। ८८३ ॥ तल्लाभार्थमिमे सर्वे, तपोध्यानव्रतादयः । विचित्रा टू मोक्षमार्ग"हेतवो लोके, तत्तत्त्वं पारमेश्वरम् ॥ ८८४ ॥ ज्ञानं तद्गोचरं यत्स्याच्छ्रद्धानं च तदाश्रयम् । क्रिया च वर्धनी तस्य, मोक्षमार्गः स की- स्यैक्यं "र्तितः ॥ ८८५ ॥ एतच्च तत्त्वं यैः सत्त्वैर्विज्ञातं शुद्धबुद्धिभिः । मेरुनिष्कम्पचित्ताना, तेषां भ्रान्तिः कुतस्त्यिका ? ॥ ८८६ ॥ केवलं "वारयन्तीमे, मूढलोकं कृपापराः । तत्त्वमार्गात्परिभ्रष्ट, यान्तमर्दवितर्दकम् ।। ८८७ ।। तदिदं ते समासेन, तत्त्वं साद्भाविकं मया । | "आख्यातं यद्विनिश्चित्य, घटन्ते चारुयोगिनः ।। ८८८ ॥ इदं चाविचलं लोके, यथैकं मानतः स्थितम् । तथा मोक्षोऽप्यनेनैकः, साध्यः | "प्रहादसुन्दरः ॥ ८८९ ॥ आत्मनोऽनन्तसद्बोधदर्शनानन्दवीर्यिणः । अमूर्तस्यात्रिरूपस्य, स्वरूपस्थितिलक्षणः ॥ ८९० ॥ संसिद्धिनिर्वृतिः "शान्तिः, शिवमक्षयमव्ययम् । अमृतं ब्रह्म निर्वाणं, ध्वनयस्तस्य वाचकाः ॥ ८९१॥ समस्तमितिकर्तव्यं, लेश्याशुद्धयर्थमीरितम् । लेश्या| "शुद्धिस्तु मोक्षाय, स चैवंविधलक्षणः ॥ ८९२ ॥ तद्बुद्धितारतम्येन, यद्देवमनुजादिषु । अनुषङ्गात्सुखं तत्तु, हेयपक्षे प्रतिष्ठितम् ॥८९३॥ "तदेवंविधसद्देवधर्मतत्त्वनिवेदकम् । सच्छास्त्रमीदृशस्यैव, मोक्षस्य प्रतिपादकम् ॥ ८९४॥ दृष्टेष्टाव्याहतं सार्व, प्रमाणेन प्रतिष्ठितम् । तदेक| "मिह सर्वत्र, व्यापकं परिकीर्तितम् ॥ ८९५॥ युग्मम् । अमुं च तस्य भावार्थ, परिज्ञाय विशेषतः । तन्नरैर्विविधैः शब्दैर्यथेष्टमभिधीयते Pा ८९६ ।। वैष्णवं वा यदुच्येत, ब्राह्मणं वा निगद्यताम् । माहेश्वरं वा गीयेत, बौद्धं वाऽप्यभिधीयताम् ।। ८९७ ॥ जैनेन्द्रं वा निवे "येत, ज्ञाताथैरिह मानवैः । अविनष्टे हि भावार्थे, शब्दभेदो न दुष्यति ॥ ८९८ ॥ अर्थेन हि प्रसीदन्ति, शब्दमात्रेण नो बुधाः । "संतुष्येद्देव इत्युक्तो, मूर्ख एव निरर्थकम् ॥ ८९९ ॥ एवं च स्थिते-एवंविधार्थ चेत्तेऽपि, वदेयुस्तीर्थिकाः स्वकम् । दर्शनं व्यापकत्वेन, PI"न विवादोऽस्ति तैः सह ।। ९०० ॥ आच्छादितानां मोहेन, पौण्डरीकमहामुने! । बहूनि दर्शनानीति, मोहोऽयं संप्रवर्तते ॥ ९०१॥ Jain Education in For Private & Personel Use Only Mahinelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy