SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. धर्मस्वरूप ॥७६५॥ "परमात्माख्यः, शुद्धबोधप्रभावकः । अशरीरोऽप्यनन्तेन, वीर्येण भवमोचकः ॥ ८६४ ॥ विज्ञातो यैर्महाभागैः, प्रतिपन्नश्च भावतः । तेषां | “निर्णीतरूपाणां, विवादः कुत्र कारणे ? ॥ ८६५॥ केवलं-ये कल्पयन्ति तं मूढा, रागद्वेषमलाविलम् । ते ज्ञाततत्स्वरूपैस्तैर्वार्यन्ते करु| "णापरैः ॥ ८६६ ॥ तदेवं तात्त्विकस्तावहेवस्तुभ्यं निवेदितः। यः प्रमाणप्रसिद्धत्वादेकः सर्वप्रवादिनाम् ॥ ८६७ ॥ धर्मोऽप्येको जगत्पत्र, "विज्ञेयः पारमार्थिकः । कल्याणमालिकाहेतुः, शुद्धः शुद्धगुणात्मकः ॥८६८॥ क्षमामार्दवसच्छौचतपःसंयममुक्तयः । सत्यब्रह्मार्जनत्यागा, | "एते धर्मगुणा दश ॥ ८६९ ॥ दशलक्षणकं धर्ममेनं विज्ञाय पण्डिताः । स्वर्गापवर्गदातारं, विवदन्ते न केनचित् ॥ ८७०॥ यस्त्वस्य "वैपरीवेन, कल्प्यते मूढमानवैः । धर्मस्तं वारयन्तीमे, करुणाऽऽक्रान्तबुद्धयः ॥८७१ ॥ तदेष धर्मः सर्वत्र, यः प्रमाणप्रतिष्ठितः । एकः “स वर्णितस्तुभ्यं, पौण्डरीकमुने! मया ॥ ८७२ ॥ तथाऽत्र मोक्षमार्गों यः, संगीतस्तत्त्वसंज्ञकः । सोऽप्येक एव विज्ञातः, पण्डितैः पर|"मार्थतः ॥८७३॥ तथाहि-सत्त्वं कैश्चित्तदाख्यातं, लेश्याशुद्धिस्तथाऽपरैः । शक्तिस्तथाऽऽत्मनो वीर्य, यल्लभ्यं योगिभिः परम् ॥८७४॥ "तदिदं शब्दभेदेन, भिद्यते नार्थतो ध्रुवम् । तथाऽस्माचरणेऽप्यत्र, ध्वनयो भेदिनः परम् ॥ ८७५ ॥ यतः-अदृष्टकर्मसंस्कारा, पुण्या| "पुण्ये शुभाशुभे । धर्माधर्मों तथा पाशाः, पर्यायास्तस्य कीर्तिताः ॥ ८७६ ॥ एतच्च सत्त्ववीर्यादिशब्दवाच्यं यदिष्यते । इदं स्वहानिवृ"द्धिभ्या, कारणं भवमोक्षयोः ॥ ८७७ ॥ हीयमाने भवन्त्यस्मिम्, भवे सर्वा विपत्तयः । वर्धमाने पुनः सर्वाः, संभवन्ति विभूतयः | "॥ ८७८ ॥ इदमेव चतुष्कोटिविशुद्धमपरे विदुः । ऐश्वर्यज्ञानवैराग्यधर्मरूपास्तु कोटयः॥ ८७९ ॥ रजस्तमोभ्यां तत्सत्त्वमावृतं न प्रका★ "शते । विपरीताच जायन्ते, तस्यैश्वर्यादयो गुणाः ॥ ८८०॥ तत्र-जोवशादवैराग्यमनैश्वर्य तमोवशात् । तमसश्चैव माहात्म्यादज्ञानाध "मसम्भवः ।। ८८१ ॥ यत्रैकं तत्र नियमाहितीयमपि विद्यते । रजस्तमोभ्यामेवं हि, भवितव्यं सदा सह ॥ ८८२ ॥ सर्वथा मलिनं | मोक्षमार्ग स्यैक्यं Jain Education interne For Private & Personal Use Only lanelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy