SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ उपमितौ प्रस्तावना. सपिपासाशनायातिशीतोष्णाच विमर्शतः । योगीव लीनचित्तोऽत्र, व्यत्रस्यत्साधुवाक्यतः॥२५॥ निशीथातिक्रमे रात्रावपि स्वकगृहागमी । वध्वाः प्रतीक्ष्य एकस्यास्तया नित्यं प्रतीक्ष्यते ॥ २६ ॥ अन्यदा रात्रिजागर्यानिर्यातवपुरुद्यमाम् । गृहव्यापारकृत्येषु, विलीनाङ्गस्थितिं ततः ॥२७॥ ईगज्ञातेयसम्बन्धवशकर्कशवाग्भरम् । श्वश्रूरश्रूणि मुञ्चन्ती, वधूं प्राह सगद्गदम् ॥ २८ ॥ युग्मम् ।। मयि सत्यां पराभूति, कस्ते कुर्यात्ततः स्वयम् । खिद्यसे कुविकल्पैस्त्वं, गृहकर्मभरालसा ॥ २९ ॥ श्वशुरोऽपि च ते व्यग्रो, यदा राजकुलादिह । आगन्ता च ततो देवावसरादावसजिते ॥ ३०॥ मामेवाक्रोक्ष्यति त्वं तत्तथ्यं मम निवेदय । यथा द्राग्भवदीयातिप्रतीकार करोम्यहम् ॥ ३१॥ सा न किञ्चिदिति प्रोच्य, श्वश्रूनिर्बन्धतोऽवदत् । युष्मत्पुत्रोऽर्द्धरात्रातिक्रमेऽभ्येति करोमि किम् ? ॥ ३२ ॥ श्रुत्वेत्याह तदा श्वश्रूः, किं नाप्रेऽजल्पि मे पुरः । सुतं खं बोधयिष्यामि, वचनैः कर्कशप्रियैः॥ ३३ ॥ अद्य स्वपिहि वत्से ! त्वं, निश्चिन्ताऽहं तु जागरम् । कुर्वे सर्व भलिष्यामि, नात्र कार्याऽधृतिस्त्वया ।। ३४ ॥ ओमित्यथ स्नुषाप्रोक्ते, रात्री तवारि तस्थुषी । विनिद्रा पश्चिमे यामे, रात्रेः पुत्रः समागमत् ।। ३५ ॥ द्वार द्वारमितिप्रौढस्वरोऽसौ यावदूचिवान् । इयद्रात्रौ क आगन्ता, माताऽवादीदिति स्फुटम् ॥ ३६ ॥ सिद्धः सिद्ध इति प्रोक्ते, तेन सा कृतकक्रुधा । प्राह सिद्धं न जानेऽहमप्रस्तावविहारिणम् ।। ३७ ॥ अधुनाऽहं क यामीति, सिद्धेनोक्ते जनन्यपि । अन्यदा शीघ्रमायाति, यथाऽस्मात्कर्कशं जगौ ॥ ३८॥ Jain Education internal For Private & Personel Use Only Mainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy