________________
उपमितौ
अ.-.
वैद्यकूटधशाला:
॥७६१॥
तीर्थ्याः, केचिदेव न चापरे ।। ७९०॥ अन्यच्च-कणभक्षाक्षपादाद्या, ये तीर्थ्याः शास्त्रकारिणः । तैस्तानि निजशास्त्राणि, शिष्येभ्यः। "कथितानि भोः! ।। ७९१ ॥ प्रवर्तितानि तीर्थानि, शिष्टानुष्ठानमालिका । तदिदं वैद्यशालानामुत्थानमभिधीयते ॥७९२ ॥ एवं च स्थित्ते
-ये सर्वज्ञमहावैद्यशालायां कर्मरोगिणः । चिकित्सां कुर्वते धन्यास्ते भवन्त्येव नीरुजः ॥ ७९३ ॥ आस्तिकेषु च तीयेषु, कर्मरोगस्य "तानवम् । यदृश्यते तथा सर्वमोक्षो वा श्रूयते कचित् ॥ ७९४ ॥ सोऽपि सर्वज्ञवाक्यानां, तेषामेव गुणो ननु । यानि तैर्निजशास्त्रेषु, "प्रथितानि कथंचन ॥ ७९५ ॥ युग्मम् । यद्वा जातिस्मरादीनां, तेषां सर्वज्ञभाषितम् । हृदि स्थितं भवत्येव, कर्मरोगनिवईणम् ॥ ७९६ ॥ | "यथा दोपत्रयं वैद्यः, शारीरज्ञश्चिकित्सति । रागद्वेषमहामोहांस्तथा सर्वज्ञ एव हि ॥ ७९७ ॥ तस्मानास्त्येव सर्वज्ञवैद्यशास्त्रबहिःस्थिता ।। "चिकित्सा कर्मरोगाणां, नूनमेतेन हेतुना ॥ ७९८ ॥ तथाहि-एकान्तविपरीता ये, जैनशास्त्रस्म नास्तिकाः । एकान्तेनैव ते पापा, दी"संसारकारकाः ॥ ७९९ ॥ तथापि क्लिष्टजन्तूनां, गृद्धानामर्थकामयोः। त एव प्रतिभान्त्युच्चैन स्तिकाः साम्प्रतक्षिणाम् ।। ८.०॥ तदे|"वमार्य ! शेषाणि, तीर्थानि जिनभाषितात् । विनिर्गतानि तेनेदं, व्यापकं जिनदर्शनम् ।। ८०१॥ एवं च स्थिते-यद्रागद्वेषमोहाना, प्र"तिपक्षतया स्थितम् । सत्यं भूतदया ब्रह्म, शौचमिन्द्रियनिग्रहः ॥ ८०२ ॥ औदार्य सुन्दरं वीर्यमाकिञ्चन्यमलोभता । गुरुभक्तिस्तपो "ज्ञानं, ध्यानमन्यच्च तादृशम् ॥८०३॥ आस्तिकेष्वपि तीर्थेषु, तत्स्वरूपेण सुन्दरम् । किंतु नो राजते तेषु, यथा याचितभूषणम् ? ॥८०४॥ "त्रिभिर्विशेषकम् । तद्धि स्वकल्पितैः शेषैः, सर्वज्ञवचनातिगैः । यागहोमादिभिः सार्ध, मीलितं न विराजते ।। ८०५ ॥ समस्तोपाधिशु"द्धानां, गुणानां प्रतिपादकम् । तदेवं सर्वतीर्थेषु, स्थितं सर्वज्ञदर्शनम् ॥ ८०६ ॥ तच्च सद्भाविकं जैनं, तीर्थ सर्वगुणात्मकम् । सर्वत्र "संस्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् ॥८०७॥ अतो मदुक्तमार्गेण, यथा ते तीर्थिकास्तथा । ध्यानयोगबलेनैव, किं स्युर्मोक्षस्य साधकाः ?
सर्वज्ञदर्शनस्य व्यापकता
Jain Education International
For Private & Personel Use Only
jainelibrary.org