SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.-. वैद्यकूटधशाला: ॥७६१॥ तीर्थ्याः, केचिदेव न चापरे ।। ७९०॥ अन्यच्च-कणभक्षाक्षपादाद्या, ये तीर्थ्याः शास्त्रकारिणः । तैस्तानि निजशास्त्राणि, शिष्येभ्यः। "कथितानि भोः! ।। ७९१ ॥ प्रवर्तितानि तीर्थानि, शिष्टानुष्ठानमालिका । तदिदं वैद्यशालानामुत्थानमभिधीयते ॥७९२ ॥ एवं च स्थित्ते -ये सर्वज्ञमहावैद्यशालायां कर्मरोगिणः । चिकित्सां कुर्वते धन्यास्ते भवन्त्येव नीरुजः ॥ ७९३ ॥ आस्तिकेषु च तीयेषु, कर्मरोगस्य "तानवम् । यदृश्यते तथा सर्वमोक्षो वा श्रूयते कचित् ॥ ७९४ ॥ सोऽपि सर्वज्ञवाक्यानां, तेषामेव गुणो ननु । यानि तैर्निजशास्त्रेषु, "प्रथितानि कथंचन ॥ ७९५ ॥ युग्मम् । यद्वा जातिस्मरादीनां, तेषां सर्वज्ञभाषितम् । हृदि स्थितं भवत्येव, कर्मरोगनिवईणम् ॥ ७९६ ॥ | "यथा दोपत्रयं वैद्यः, शारीरज्ञश्चिकित्सति । रागद्वेषमहामोहांस्तथा सर्वज्ञ एव हि ॥ ७९७ ॥ तस्मानास्त्येव सर्वज्ञवैद्यशास्त्रबहिःस्थिता ।। "चिकित्सा कर्मरोगाणां, नूनमेतेन हेतुना ॥ ७९८ ॥ तथाहि-एकान्तविपरीता ये, जैनशास्त्रस्म नास्तिकाः । एकान्तेनैव ते पापा, दी"संसारकारकाः ॥ ७९९ ॥ तथापि क्लिष्टजन्तूनां, गृद्धानामर्थकामयोः। त एव प्रतिभान्त्युच्चैन स्तिकाः साम्प्रतक्षिणाम् ।। ८.०॥ तदे|"वमार्य ! शेषाणि, तीर्थानि जिनभाषितात् । विनिर्गतानि तेनेदं, व्यापकं जिनदर्शनम् ।। ८०१॥ एवं च स्थिते-यद्रागद्वेषमोहाना, प्र"तिपक्षतया स्थितम् । सत्यं भूतदया ब्रह्म, शौचमिन्द्रियनिग्रहः ॥ ८०२ ॥ औदार्य सुन्दरं वीर्यमाकिञ्चन्यमलोभता । गुरुभक्तिस्तपो "ज्ञानं, ध्यानमन्यच्च तादृशम् ॥८०३॥ आस्तिकेष्वपि तीर्थेषु, तत्स्वरूपेण सुन्दरम् । किंतु नो राजते तेषु, यथा याचितभूषणम् ? ॥८०४॥ "त्रिभिर्विशेषकम् । तद्धि स्वकल्पितैः शेषैः, सर्वज्ञवचनातिगैः । यागहोमादिभिः सार्ध, मीलितं न विराजते ।। ८०५ ॥ समस्तोपाधिशु"द्धानां, गुणानां प्रतिपादकम् । तदेवं सर्वतीर्थेषु, स्थितं सर्वज्ञदर्शनम् ॥ ८०६ ॥ तच्च सद्भाविकं जैनं, तीर्थ सर्वगुणात्मकम् । सर्वत्र "संस्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् ॥८०७॥ अतो मदुक्तमार्गेण, यथा ते तीर्थिकास्तथा । ध्यानयोगबलेनैव, किं स्युर्मोक्षस्य साधकाः ? सर्वज्ञदर्शनस्य व्यापकता Jain Education International For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy