________________
उपमिती अ.८-प्र.
वैद्यकूटवैद्यशाला
गि कमान, मम सर्वश: पसारोदए
॥७६०॥
"किं बहुना?-सा महावैद्यशालैका, ज्ञेया रोगनिबर्हणी । तत्संहितानुसारेण, शेषा अपि कदाचन ॥ ७७२ ॥ यतः–बातः पित्त कफ
"श्चेति, सर्वरोगविधायकम् । दोषत्रयं विजानीते, सुवैद्यस्तस्य भेषजम् ।। ७७३ ।। कूटवैद्या न जानन्ति, खयं तत्त्वविरोधतः । तेभ्यो M“योऽपि विशेषः स्याद्धन्यानां रोगिणां कचित् ॥७७४॥ सोऽयं घुणाक्षरन्यायः, स्याहोषत्रयहानितः । तस्मात्स एव सद्वैद्यस्तत्र रोगचिकि
"त्सकः ॥ ७७५ ॥ युग्मम् । तदिदं ते समासेन, मया वैद्यकथानकम् । पौण्डरीक! समाख्यातं, सन्देहदलनं परम् ॥ ७७६ ।। भवोऽत्र "नगरं ज्ञेयः, सर्वरोगप्रपीडितः । एकस्तत्र महावैद्यः, सर्वज्ञः परमेश्वरः ॥ ७७७ ॥ संजातकेवलज्ञानः, शिष्टसिद्धान्तसंहितः । सर्वलोको
"पकारी च, कर्मरोगनिबर्हणः ॥ ७७८ ॥ तथापि गुरुकर्माणः, संसारोदरचारिणः । भूयांसो न प्रपद्यन्ते, जीवास्तं परमेश्वरम् ॥ ७७९॥ Pl"ये भव्या लघुकर्माणो, जीवा धन्यतमाः परम् । त एव तं प्रपद्यन्ते, सद्वैद्यं परमेश्वरम् ॥ ७८०॥ सदेवमनुजागां च, स सभायां यदा
"तुलम् । शिष्येभ्यो देशयत्युच्चैर्मोक्षमार्ग जगद्गुरुः ।। ७८१ ॥ तदा देवा मनुष्याश्च, केचित्तां कलुषाशयाः । प्रसङ्गेनागतास्तत्र, ऋग्वन्ति
"जिनदेशनाम् ॥ ७८२ ॥ अनेकनयगम्भीरा, तां श्रुत्वा मन्दबुद्धयः । अन्यथा कल्पयन्त्येते, मिथ्यात्वाध्मातचेतसः ॥ ७८३ ॥ ततस्ते M"जिनसद्वैद्यादुपभुत्य बहिर्गताः । स्वशास्त्राणि प्रकुर्वन्ति, कूटवैद्यसमानकाः ॥७८४॥ तत्र च-ये तावदास्तिकाः केचित्तीर्थ्याः सांख्यादयो
"मताः । जिनवाक्यानुसारेण, तैर्ग्रन्थेषु कियन्यपि ॥ ७८५ ॥ कृतानि चारुवाक्यानि, शेषमभ्यूहितं स्वयम् । स्वपाण्डित्यामिमानेन, कूट&"वैद्यैरिवाखिलम् ॥ ७८६ ।। युग्मम् । ततः सर्वज्ञसद्वाक्यभूषितानि महीतले । तच्छास्त्राण्यपि राजन्ते, प्रसिद्धि प्रगतानि च ।। ७८७ ॥ P"ये पुनर्नास्तिकाः पापा, बृहस्पतिसुतादयः । सर्व तैर्जिनशास्त्रस्य, विपरीतं विकल्पितम् ॥ ७८८॥ तेऽपि वाघालतासारास्तथाविधजने
“गताः । प्रसिद्धिं तस्करस्येह, प्रागल्भ्यं हि महत्तरम् ॥७८९॥ तथा-नानारुचित्वाल्लोकानां, प्रतिभान्ति यथाशयम् । केषांचिदेव ते
1525A5
25%
७ton
Jain Education
i
n
For Private & Personel Use Only
ainelibrary.org