SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. ॥ ७५९ ॥ Jain Education "ज्ञानः स्रष्टा समस्तरोगसंहितानां नाशको निःशेषरोगाणामुपकारनिरतो लोकानां तथापि ते लोका अधन्यया न प्रतिपद्यन्ते तस्य वचनं के| "चित्तु धन्यतमाः प्रतिपद्यन्ते, स चानवरतं विधत्ते स्वशिष्येभ्यो व्याख्यानं, तश्चोपश्रुत्याप्रसङ्गागतैरवधारितं स्वबुद्ध्या कियदप्यन्यधूर्तेः, " ततस्ते तलवमात्रतुष्टाः स्वपूजार्थ वैद्यकमाचरितुमारब्धाः, तेषां तु लोकानामधन्यतयैव ते नितरां प्रतिभासन्ते, ततस्तैः पण्डितंमन्यतया “विरचिता निजनिजसंहिताः प्रथितानि कैश्चित्तान्युपश्रुत्याऽवधारितानि सद्वैद्यवचनान्यनुसरद्भिः कानिचित्तासां मध्ये वचनानि अन्यैः "पुनरेकान्तविपरीतसद्वैद्यवचनानामतिपाण्डित्याभिमानेन संहिता विहिताः, विविधरुचयश्च ते रोगिणो नागरकाः, ततस्तेषामपि कूटवैद्यानां " मध्ये कश्चिदेव केषांचिश्चित्ते प्रतिभाति नापरः, ततः प्रसिद्धिं गताः सर्वेषां सम्बन्धिन्यो वैद्यशालाः, व्याख्याताः सर्वैर्विनेयेभ्यो निजनि“जसंहिताः वाचालतया प्रसिद्धास्तेऽपि महावैद्यतया अवधीरित इव भूरिलोकैरसौ मौलमहावैद्यः । एवं च स्थिते —ये ते मौलमहावैद्यस - "त्क्रियां विधिपूर्वकम् । कुर्वन्ति रोगिणस्तावत्ते भवन्त्येव नीरुजः ॥ ७६३ ॥ किं च तत्र जीवति सद्वैधे, रोगैर्मुक्ता यथा जनाः । तस्यां “सुवैद्यशालायां, भूयांसो विहितक्रियाः ॥ ७६४ ॥ तथा मृतेऽपि सा शाला, सविनेया ससंहिता । संजाता सर्वलोकानां, रोगच्छेदविधा“यिनी ॥ ७६५ ॥ युग्मम् । ये पुनः कूटवैद्यानां, रोगिणो गोचरं गताः । तेषां ते रोगजालेन, नितरां परिपीडिताः ॥ ७६६ ।। किं च “यथा जीवत्सु तच्छाला, लोकानामपकारिकाः । मृतेष्वपि तथा जाताः, सविनेयाः ससंहिताः ॥ ७६७ ॥ यस्तु तावपि दृश्येत, “वैद्यशालासु कश्चन । विशेषो रोगिणां हन्त, रोगतानवलक्षणः ॥ ७६८ ।। सर्वरोगविमोक्षो वा, कथंचिद्दैवयोगतः । तासु स्थितानां शा"लासु, यदि जायेत देहिनाम् ॥ ७६९ ।। सोऽपि तेषां गुणो नूनं, सर्वव्याधिनिवर्हिणाम् । यानि सद्वैद्यशास्त्रस्य, गृहीतानि पदानि तैः |||७७० ॥ त्रिभिर्विशेषकम् । तथाहि — यैस्तानि न गृहीतानि, सर्वथा दुष्टबुद्धिभिः । एकान्तेनैव ते जाता, व्याधिवृद्धेर्विधायकाः ॥ ७७१ ॥ For Private & Personal Use Only वैद्यकूटवै द्यशालाः ॥ ७५९ ॥ jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy