________________
उपमितौ अ.८-अ.
ध्यानयोगवैचित्र्यं
॥७५८॥
| "कारणम् ॥ ७४५ ॥ अन्ये परां शिखां प्राहुरूर्ध्वाधो व्यापिकां किल । परमाक्षरमात्रा सा, सैवामृतकलोच्यते ॥ ७४६ ॥ नासाने धूल- "तामध्ये, बिन्दुं देवमथापरे । तुषारहारधवलं, ध्येयमाहुश्चलस्थिरम् ॥ ७४७ ॥ आग्नेयमण्डले स स्यान्मीलिते रक्तवर्णकः । माहेन्द्र "पीतकः कृष्णो, वायव्ये वारुणे सितः ।। ७४८ ॥ तत्र-पीतः सुन्दरचित्तेन, रक्तस्तापेषु चिन्त्यते । कृष्णोऽभिचारिके कार्ये, पुष्टिदो | "धवलो मतः ॥ ७४९ ॥ अन्येऽप्याहुर्यथा शोध्यो, नाडीमार्गों मुमुक्षुणा । इडापिङ्गलयो यं, नाड्योः सञ्चारकर्म च ॥ ७५० ॥ ना
"डीचक्रस्य विज्ञेयः, प्रचारो दक्षिणेतरः । तहारेण च मन्तव्यं, बहिः कालबलादिकम् ॥ ७५१ ॥ पद्मासनं विधायोच्चैघण्टानादायतं क| "लम् । ॐकारोच्चारणं प्राहुरपरे शान्तिदायकम् ॥ ७५२ ॥ तथाऽन्ये प्राहुर्यथा-आ नाभेः सरलं प्राणं, बिसतन्तुसमं शनैः । मूर्धा| "न्तस्तालुरन्ध्रेण, निर्गच्छन्तं विचिन्तयेत् ॥ ७५३ ॥ आदित्यमण्डलस्थं वा, वक्षोराजीवसंस्थितम् । आद्यं पुमांसमपरे, तथा ध्येयतया
"विदुः ॥ ७५४ ॥ हृद्योम्नि संस्थितं नित्यं, पुमांसं परमं तथा । लसदंशुशताकीर्ण, ध्येयमाहुर्मनीषिणः ॥ ७५५ ॥ आकाशमात्रमपरे,8 | "विश्वमन्ये चराचरम् । आत्मस्थं चिन्त्यमित्याहुरपरे ब्रह्म शाश्वतम् ॥ ७५६ ॥" एवं च स्थिते-यथा नाथैर्ममाख्यातो, द्वादशाङ्गस्य सा| रकः । ध्यानयोगस्तथा तीयः, स एव प्रतिपादितः ॥ ७५७ ॥ तकि सर्वेऽपि ते तीर्थ्या, भवेयुर्मोक्षसाधकाः? । ध्यानयोगबलेनैव, सारो यद्येष वर्तते ॥ ७५८ ॥ किं चेदं ध्येयनानात्वमपरापरयोगिनाम् । एकत्र मोक्षे संसाध्ये १, बलवान्मम संशयः ।। ७५९ ॥ तदेनमधुना नाथा!, रूढं सन्देहपादपम् । स्ववाक्यदन्तिसामर्थ्यादुन्मूलयितुमर्हथ ।। ७६० ॥ सूरिणोक्तं—आर्य! सामान्यगीतार्थस्त्वमेवं तेन भाषसे । विशेषतो न विज्ञातमैदम्पर्य जिनागमे ॥ ७६१॥ "एते हि तीर्थ्याः सर्वेऽपि, कूटवैद्यसमानकाः । जिनसद्वैद्यशास्त्रस्य, पल्लवग्रा"हिणो मताः ॥ ७६२ ॥ तथा चात्र कथानक-एकस्मिन्नगरे भूरिरोगग्रस्तसमस्तलोके विद्यते कश्चिदेक एव महावैद्यः, स चोत्पन्नदिव्य
Jain Education in
For Private & Personal Use Only
Alainelibrary.org