SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ उपमिती अ. ८-प्र. ॥७५७॥ अहिंसादिविशुद्धेन, सोऽनुष्ठानेन साध्यते ॥ ७२७ ।। अतः सर्वमनुष्ठानं, चेतःशुद्ध्यर्थमिष्यते । विशुद्धं च यदेकानं, चिचं सम्यानमुत्तमम् ।। ७२८ ॥ तस्मात्सर्वस्य सारोऽस्य, द्वादशाङ्गस्य सुन्दर! । ध्यानयोगः परं शुद्धः, स हि साध्यो मुमुक्षुणा ॥ २९ ॥ शेषानुष्ठानमप्येवं, यत्तदङ्गल्या स्थितम् । मूलोत्तरगुणाढ्यं तत्सर्व सारमुदाहृतम् ॥ ७३० ॥ अथाकर्ण्य गुरोर्वाक्यं, पौण्डरीकमहामुनिः । पुनः प्रोवाच शान्तात्मा, ललाटे कृतकुड्मलः ॥ ७३१ ॥ भदन्त ! बालकालेऽपि, ममासीदतिकौतुकम् । मोक्षमार्गे ततः पृष्टा, मया भूरिकुतीर्थिकाः ॥ ७३२ ॥ यथा भो भो महाभागाः!, किं तत्तत्त्वं परं मतम् । निःश्रेयसकरं सारं, रहस्यं परमाक्षरम् ॥ ७३३॥ ततो यथायथं सर्वैर्मतमाश्रित्य तैर्मम । निवेदितं परं तत्त्वं, तीथिकैस्तच्च कीदृशम् ? ॥ ७३४ ॥ "एके प्राहुर्यथा सर्व, हिंसादि क्रियतामिति । "केवलं बुद्धिलेपोऽत्र, रक्षणीयो मुमुक्षुणा ।। ७३५ ॥ यतः यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पडून, नासौ | "पापेन लिप्यते ॥ ७३६ ॥ अन्ये प्राहुर्यथा सर्व, पापं कृत्वा हि मानवाः । मुच्यन्ते क्षणमात्रेण, ये स्मरन्ति महेश्वरम् ॥ ७३७ ॥ | "यतः-छित्त्वा भित्त्वा च भूतानि, कृत्वा पापशतानि च । स्मरन् देवं विरूपाक्षं, सर्वपापैः प्रमुच्यते ॥ ७३८ ॥ अन्यैस्तु पापशुद्ध्यर्थ, "विष्णुध्यानमुदाहृतम् । तद्ध्यशेषमलक्षालि, यतः प्रोक्तमिदं वचः ॥ ७३९ ॥ अपवित्रः पवित्रो वा, सर्वावस्थां गतोऽपि वा । यः स्मरे"त्पुण्डरीकाक्षं, स बाह्याभ्यन्तरः शुचिः ॥ ७४० ॥ अन्ये पापाशनं मवं, प्राहुः पापनिबर्हणम् । अन्ये वायुजयं प्राज्ञाः, प्राहुर्मोक्षस्य "साधनम् ॥ ७४१ ॥ ध्यानेनोद्वर्तते यत्तत्पौण्डरीकं हृदि स्थितम् । विघाटितदलं रम्यं, मनोऽलिसुखदं परम् ॥ ७४२ ॥ तद्वारेण निली“येत, मनोऽलिः परमे पदे । तस्य यो लक्ष्यते नादस्तत्तत्त्वमपरे जगुः ॥ ७४३ ॥ युग्मम् । तथाऽन्ये पुरकं प्राहुः, कुम्भकं रेचकं तथा । "तस्यैव पुण्डरीकस्य, पवनं प्रविघाटकम् ॥ ७४४ ॥ अन्ये प्राहुः पुनर्विन्दु, कुन्देन्दुस्फटिकप्रभम् । तिर्यगूर्वमधश्चैव, सर्पन्तं ज्ञान ध्यानयोगवैचित्र्यं SONGS ॥७५७॥ उ, भ, ६४ Jain Education in For Private & Personel Use Only Krainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy