________________
उपमितौ
अ. ८-प्र. ।। ७५६ ।।
तमन्तरङ्गं विचेष्टितम् ॥ ७०८ ॥ एतञ्चाकर्ण्य ते तुष्टाः, पौण्डरीकादिसाधवः । चित्ते सुललिता जाता, सर्वथा शोकवर्जिता ॥ ७०९ ॥ ततः सा चिन्तयामास, गाढं संविग्नमानसा । पूर्वाबोधमनुस्मृत्य यथाऽहं गुरुकर्मिका ॥ ७१० ॥ तदिदं मामकं नूनं, जीवरनं न शु४ ध्यति । संवेगानिलसारण, विना तीव्रतपोऽग्निना ॥ ७११ ॥ एवं विचिन्त्य सा धन्या, सद्गुरूणामनुज्ञया । कष्ठैस्तपोभिरात्मानं निस्तताप कृतोद्यमा ।। ७१२ ।। कथं ? – चतुर्थषष्ठदशमद्वादशादिविचित्रया । रराज रागनिर्मुक्ता, रत्नावल्या विराजिता ।। ७१३ ।। चित्रचर्यासुवर्णेन, निर्मिताऽस्याश्चतुर्लता । शरीरे संस्थिता रम्या, शुशुभे कनकावली ॥ ७१४ ॥ चतुर्थादितपः कर्मसन्मौक्तिकविशुद्धया । रुरुचे सा महाभागा, मुक्तावल्या विभूषिता ।। ७१५ || लघुभिश्च महद्भिव, सिंहविक्रीडितैस्तथा । क्रीडानिवृत्तबुद्ध्यापि क्रीडितं सिंहलीलया ।। ७१६ ॥ तस्या भद्रामहाभद्रे, सर्वतोभद्रया सह । भद्रोत्तरा च प्रतिमा, चकार तनुभूषणम् ।। ७१७ || आचाम्लवर्धमानेन, वर्धमाना प्रतिक्षणम् । क्रियमाणेन सा जज्ञे, ज्ञानेन गतकल्मषा ॥ ७१८ ॥ चान्द्रायणं चरन्त्या च निजं कुलनभस्तलम् । तयैवोद्दयोतितं मन्ये, चन्द्रलेखासमानया ।। ७१९ ॥ आसेव्य यवमध्यानि, वज्रमध्यानि चानघा । साऽलं सुललिता जाता, निःस्पृहा भवचारके ।।७२० ।। तदेवमादिभिर्धन्या, तपोभिर्निजकल्मषम् । सा तदा लब्धसद्वीर्या, क्षालयन्ती व्यवस्थिता ॥ ७२१ ॥ इतश्च पौण्डरीकोऽपि ज्ञानाभ्या| सपरायणः । कालक्रमेण संपन्नो, गीतार्थो विजितेन्द्रियः ॥ ७२२ ॥ ततोऽसावागमार्थस्य, सर्वसारं सुनिर्मलम् । जिज्ञासुर्विनयेनेत्थं, गुरुं पप्रच्छ भावतः ॥ ७२३ ॥ भदन्त ! द्वादशाङ्गस्य, विस्तीर्णस्योदधेरिव । भगवद्भाषितस्यास्य किं सारमिति कथ्यताम् ।। ७२४ ॥ समन्तभद्रगुरुभिस्ततः प्रोक्तमिदं वचः । आर्य ! सारोऽत्र विज्ञेयो, ध्यानयोगः सुनिर्मलः ॥ ७२५ ॥ यतः — मूलोत्तरगुणाः सर्वे सर्वा | चेयं बहिष्क्रिया । मुनीनां श्रावकाणां च, ध्यानयोगार्थमीरिता ।। ७२६ ।। तथाहि — मनः प्रसादः साध्योऽत्र, मुक्त्यर्थं ज्ञानसिद्धये ।
Jain Education I
For Private & Personal Use Only
सुललिता
तपः
द्वादशा
ङ्गीसारं ध्यानं
॥ ७५६ ॥
w.jainelibrary.org