________________
अबोधकारणं
उपमितौर ॥ ६३८ ॥ अन्यच्च-एषामेष परिच्छेदः, संजातो ज्ञानपूर्वकः । त्रयाणामपि धन्यानामनुसुन्दरवाक्यतः ॥ ६३९ ॥ अहं पुनर्न जानेअ.८-प्र.
त्र, किं करोम्यन्धकल्पिका? । शून्या प्रामेयकाकारा, स्पष्टसद्बोधवर्जिता ॥ ६४०॥ तदिदं मे महाभागे!, स्वयं बुद्धा सदागमम् ।
पृष्ट्वा कथय निःशेषं, कस्य पापस्य जम्भितम् ? ॥ ६४१ ॥ ततस्तां तादृशीं वीक्ष्य, बाष्पप्लुतविलोचनाम् । राजपुत्री कृपावेशाब्रवीदनु॥७५०॥
सुन्दरः ॥ ६४२ ।। उक्तं च तेन यथा-मुग्धे! सुललिते यदि तवास्ति स्वदुश्चरितजिज्ञासा ततोऽहमेव तत्ते निवेदयामि अलं भगवत्याऽत्र प्रयोजने प्रयासितया, सुललितयोक्तं-अनुग्रहो मे, निवेदयत्वार्यः, अनुसुन्दरेणोक्तं-अस्ति तावद्णधारणेन सता मया सार्ध मदनम| जरी सती संजातवैराग्या प्रव्रजिताऽसि त्वं अभ्यस्तः क्रियाकलापः कृतानि भूरितपश्चरणानि, केवलं प्रवृत्ता तदा ते दुर्बुद्धिः-यदुत यदत्र कर्तव्यं तदेव क्रियता किममेन बहुना रोलेन ?, ततो न सुखायितस्ते स्वाध्यायकोलाहलः न रुचिता वाचना न प्रतिभाता प्रच्छना नाभिमता परावर्तना नानुष्ठिता त्वयाऽनुप्रेक्षा नानुशीलिता धर्मदेशना, किं तर्हि ?, प्रतिभासिता ते प्रचला अभीष्टा स्वाध्यायोद्वेगेन मौनव्र|तचारिता न च संजातस्तत्र तीब्रोऽभिनिवेशः यतो न विहिता ज्ञानवता प्रत्यनीकता न कृतमान्तरायिकं न जनितस्तदुपघातः नाचरित| स्तत्प्रद्वेषः नासेवितस्तन्निह्नवः न संपादिता महाशातना, किं तु तया कुबुद्ध्या तेन ज्ञानशैथिल्येन तया च प्रमादपरतया कृता भवत्या | लघीयसी श्रुताशातना, ततः समुपार्जितमिदमीदृशं कर्म यत्प्रभावादसङ्ख्येयकालं भ्रान्ताऽसि भवचक्रके जाताऽसि चैवंविधा त्वं जडबुद्धि| रिति, किं च-सुललिते! पूर्वभवाभ्यासादेव प्रायशः, प्राणिनां भूयांसोऽनुवर्तन्ते भावाः, तथाहि-यथा तदा त्वं मदनमञ्जरी सती पुरुषद्वेषिणी संजाता तथेहापि, अत एव सखीभिर्ब्रह्मचर्यनिरततया ब्राह्मणी त्वमाकारिता, तत्किं मिलत्येष ते प्रत्ययः ?, सुललितयोक्तं-आर्य! किं चात्र भवद्वचने न मिलति ?, केवलमहमत्र मन्दभाग्या यैवमपि कथ्यमाने भास्करोदये कौशिकवत्तमःपूरितैव ति
॥७५०॥
in Education
For Private Personel Use Only
jainelibrary.org