________________
उपमिती अ.८-प्र.
॥७५१॥
ष्ठामीति वदन्ती स्थूलमुक्ताफलनिकरमिव नयनसलिलबिन्दुवर्ष मोक्तुं प्रवृत्ता, ततोऽभिहिता साऽनुसुन्दरराजेन-राजपुत्रि! मुञ्च विषादं सदागमक्षीणप्राय तेऽधुना तत्कर्म कुरुष्व सदागमे भगवति भक्तिं गच्छेमं शरणं, एतदाराधनमूलं हि देहिनां तत्त्वज्ञानं, अयमेव अज्ञानतमोदलने शरणाङ्गीभास्करभूतो भगवान , धन्यासि त्वं याऽस्य पादमूलं प्राप्ता, ततोऽमीभिर्वचनैः पवनैरिव संधुक्षिततीव्रसंवेगानला सा सुललिता सदागमोऽ- कार: यमितिबुद्ध्या पतिता भगवत्समन्तभद्रसूरिचरणयोः, अभिहितं च-अज्ञानपङ्कमनाया, जगन्नाथ सदागम! । त्वमेव मन्दभाग्याया, ममोत्तारणवत्सलः ॥ ६४३ ॥ शरणं त्वं महाभाग!, त्वं स्वामी त्वं च मे पिता । तदेष विमलो नाथ!, क्रियतां किङ्करो जनः॥६४४॥ ततो महाप्रभावतया सदागमबहुमानस्य गुरुतया संवेगस्य सरलतया हृदयस्य कल्याणहेतुतया भगवत्सन्निधानस्य प्रत्यासन्नतया मोक्षस्य विघटितं भूरि कर्मजालं, पादपतिताया एव संजातं जातिस्मरणं, दृष्टः साक्षादिव मदनमञ्जर्यादिको वृत्तान्तः, ततः समुल्लसितः प्रमोदः, सुललिता. | समुत्थाय च निपतितानुसुन्दरचरणयोः, तेनोक्तं-सुललिते !- किमेतत् ?, सा प्राह-यद्भगवतः प्रसादाद्भवति तत्संपन्नमधुना मे, यतःाया जातिसंजातं जातिस्मरणं संपन्नस्तावकवचननिर्णयः विरतं संसारचारकाच्चित्तं, तदनुगृहीताऽहं मन्दभाग्या भगवता भवता च, अनुसुन्दरे
स्मरणं णोक्तं-आयें ! स्वभक्तमनुगृह्वात्येवायं भगवान् ! नास्त्यत्र सन्देहः, तथाहि-अहं भगवताऽनेन, नरकं प्रति गामुकः । भावचौर्येण बद्धो-18 ऽपि, साक्षादेवं विमोचितः ।। ६४५ ॥ पापिष्ठा अपि ये सत्त्वाः , समासाद्य सदागमम् । एनं भक्तिं प्रकुर्वन्ति, मुच्यन्ते ते न संशयः ॥ ६४६ ॥ अन्यच्च-कृच्छ्रेण किल बुद्धाऽहं, मन्दभाग्येति चिन्तया । न चावभावना कार्या, त्वया भद्रे! स्वगोचरे ॥ ६४७ ॥ यतो| ऽहमपि तैः पूर्वमकलङ्कादिभिस्तदा । न बोधितो यदाऽऽसीन्मे, प्रबलं भूरिपातकम् ॥ ६४८ ॥ स्वयोग्यतां पुनः प्राप्य, विलीने पापकमणि । त्वत्तः कृच्छ्रतरेणाहं, प्रबुद्धो जैनशासने ॥ ६४९ ॥ यदा ह्यस्य विलीयेत, पापं कालादिहेतुभिः । जीवस्तदा प्रबुध्येत, गुरवः
ACCORK
SCHOCOLARAM
Jain Education
a
l
For Private & Personel Use Only
Shw.jainelibrary.org