SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ उपमिती श्रीसिद्धर्षिसूरिप्रबन्धः । प्रस्तावना. PASSAGIGINARIO श्रीसिद्धर्षिः श्रियो देयाद्धियामध्यामधामभूः । निर्ग्रन्थग्रन्थतामापुर्यद्वन्थाः साम्प्रतं भुवि ॥१॥ श्रीसिद्धर्षिप्रभोः पान्तु, वाचः परिपचेलिमाः । अनाद्यविद्यासंस्कारा, यदुपास्तेर्भिदेलिमाः ॥ २ ॥ सुप्रभुः पूर्वजो यस्य, सुप्रभः प्रतिभावताम् । बन्धुर्बन्धुरभाग्यश्रीर्यस्य माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्तयिष्यामि, तस्य त्रस्यज्जडाशयम् । भूभृच्चक्रचमत्कारि, वारिताखिलकल्मषम् ॥४॥ अजर्जरश्रियां धाम, वेषालक्ष्यजरज्जरः । अस्ति गुर्जरदेशोऽन्यसजराजन्यदुर्जरः ॥ ५॥ तत्र श्रीमालमित्यस्ति, पुरं मुखमिव क्षितेः । चैत्योपरिस्था कुंभालियंत्र चूडामणीयते ॥ ६॥ प्रासादा यत्र दृश्यन्ते, मत्तवारणराजिताः । राजमार्गाश्च शोभन्ते, मत्तवारणराजिताः ॥७॥ जैनालयाश्च सन्त्यत्र, नवं धूपगमं श्रिताः । महर्षयश्च निःसंगा, न बन्धूपगमं श्रिताः ॥ ८॥ तत्रास्ति हास्तिकाश्वीयापहस्तितरिपुव्रजः । नृपः श्रीमर्मलाताख्यः, शत्रुमर्मभिदाक्षमः ॥ ९ ॥ तस्य सुप्रभदेवोऽस्ति, मत्री मित्रं जगत्यपि । सर्वव्यापारमुद्राभृन्मुद्राकृहुर्जनानने ॥ १० ॥ KAROSANSARKAROSARS Jain Education a For Private & Personel Use Only Crow.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy