SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ उपमिती श्रीसिद्धर्षिसूरिप्रबन्धः । प्रस्तावना. PASSAGIGINARIO श्रीसिद्धर्षिः श्रियो देयाद्धियामध्यामधामभूः । निर्ग्रन्थग्रन्थतामापुर्यद्वन्थाः साम्प्रतं भुवि ॥१॥ श्रीसिद्धर्षिप्रभोः पान्तु, वाचः परिपचेलिमाः । अनाद्यविद्यासंस्कारा, यदुपास्तेर्भिदेलिमाः ॥ २ ॥ सुप्रभुः पूर्वजो यस्य, सुप्रभः प्रतिभावताम् । बन्धुर्बन्धुरभाग्यश्रीर्यस्य माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्तयिष्यामि, तस्य त्रस्यज्जडाशयम् । भूभृच्चक्रचमत्कारि, वारिताखिलकल्मषम् ॥४॥ अजर्जरश्रियां धाम, वेषालक्ष्यजरज्जरः । अस्ति गुर्जरदेशोऽन्यसजराजन्यदुर्जरः ॥ ५॥ तत्र श्रीमालमित्यस्ति, पुरं मुखमिव क्षितेः । चैत्योपरिस्था कुंभालियंत्र चूडामणीयते ॥ ६॥ प्रासादा यत्र दृश्यन्ते, मत्तवारणराजिताः । राजमार्गाश्च शोभन्ते, मत्तवारणराजिताः ॥७॥ जैनालयाश्च सन्त्यत्र, नवं धूपगमं श्रिताः । महर्षयश्च निःसंगा, न बन्धूपगमं श्रिताः ॥ ८॥ तत्रास्ति हास्तिकाश्वीयापहस्तितरिपुव्रजः । नृपः श्रीमर्मलाताख्यः, शत्रुमर्मभिदाक्षमः ॥ ९ ॥ तस्य सुप्रभदेवोऽस्ति, मत्री मित्रं जगत्यपि । सर्वव्यापारमुद्राभृन्मुद्राकृहुर्जनानने ॥ १० ॥ KAROSANSARKAROSARS Jain Education a For Private & Personel Use Only Crow.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy