SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥७४५॥ तदन्तरङ्ग चौर्य यन्मयाऽधुना विहितं ईदृशी च तत्र विडम्बना एवं चाहं स्वगतं परगतं च वृत्तान्तजातं जानामीति, एतच्चाकर्ण्य विस्मिता सुललिता भाविता हृदये, पौण्डरीकेणापि गृहीतो मनाग्भावार्थः, ततोऽभिहितमनेन-आर्य! किं पुनरधुना ते चित्तवृत्तौ वर्तते ?, अनसन्दरेणोक्तं-आकर्णय यावत्संवेगमापनः, प्रारब्धो निजचेष्टितम् । निवेदयितुमित्थं भोः, पुरतो भवतामहम् ।। ५६५ ।। तावचा- अनसन्दरित्रधर्मोऽसौ, स्वसैन्यपरिवारितः । प्रस्ताव इति विज्ञाय, चलितो मम सम्मुखम् ॥ ५६६ ॥ तेन चागच्छता-आनन्दितं स्ववीर्येण, कारस्य चारिपुरं सात्त्विकमानसम् । अत्यन्तशुभ्रता नीतो, विवेकवरपर्वतः ॥ ५६७ ॥ शिखरं चाप्रमत्तत्वं, कृतमुञ्चैस्तरां वरम् । उद्बासितं च भूयो त्रेच्छा ऽपि, पुरं जैनं प्रतिष्ठितम् ॥ ५६८ ॥ स च चित्तसमाधानो, मण्डपोऽपि समारितः । सा च निःस्पृहतावेदिः, पुनः सजा विनिर्मिता ॥ ५६९ ॥ तच्चोल्लसत्प्रभाजालं, जीववीर्य वरासनम् । कृतं तेन स्वसैन्यं च, सर्वथा परितोषितम् ॥ ५७० ॥ ततश्चागच्छतस्तस्य, परिपूर्णतयाऽध्वनि । सर्वप्राणेन तल्लग्नं, महामोहमहाबलम् ।। ५७१ ॥ दृष्टं प्रत्यक्षतः सर्व, तच्च युद्धं मयाऽतुलम् । ततः परिसरे रम्ये, चित्तवृत्तेरनीकयोः ॥ ५७२ ॥ ततः सद्बोधयुक्तेन, सम्यग्दर्शनसंयुजा । मयाऽवष्टम्भितो जातः, स राजा जयभाजनम् ॥ ५७३ ॥ ततो विघटिताशेषपरपक्षः खलीलया। अवाप्तजयलक्ष्मीकः, शत्रुराज्यं निपीड्य च ॥ ५७४॥ गृहीत्वाऽन्तःपुरं सर्व, मामकीनं चिरन्तनम् । राजा चारित्रधर्मोऽसौ, मत्समीपमुपागतः ॥ ५७५ ॥ युग्मम् । ते च निर्नष्टसर्वस्वाः, किंचिच्छेषस्वजीविताः । दीनाः क्षीणा दृढं लीना, महामोहादयः स्थिताः ॥५७६॥ चित्तवृत्ताविदं भद्र !, वर्तते मम साम्प्रतम् । यच्छत्रवः प्रलीनास्ते, प्रहृष्टा वरबान्धवाः ॥५७७।। युग्मम् । अन्यच्च-प्रपद्य त्रिजगद्वन्धं, लिङ्गं सर्वज्ञभाषितम् । अधुना पोषणीयोऽसौ, बन्धुवर्गो मयाऽऽन्तरः ।। ५७८ ॥ एवं च वदता तेनानु-| ॥७४५॥ सुन्दरराजेनोपसंहृतं तद्विकृतं तस्कररूपं आविर्भावितं स्वाभाविकं चक्रवर्तिस्वरूपं कृतसङ्केततया निवृत्ता तस्करविडम्बनासामग्री समायात्रा उ. भ. ६३ Jain Education International For Private & Personel Use Only aujainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy