SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. ॥७४५॥ तदन्तरङ्ग चौर्य यन्मयाऽधुना विहितं ईदृशी च तत्र विडम्बना एवं चाहं स्वगतं परगतं च वृत्तान्तजातं जानामीति, एतच्चाकर्ण्य विस्मिता सुललिता भाविता हृदये, पौण्डरीकेणापि गृहीतो मनाग्भावार्थः, ततोऽभिहितमनेन-आर्य! किं पुनरधुना ते चित्तवृत्तौ वर्तते ?, अनसन्दरेणोक्तं-आकर्णय यावत्संवेगमापनः, प्रारब्धो निजचेष्टितम् । निवेदयितुमित्थं भोः, पुरतो भवतामहम् ।। ५६५ ।। तावचा- अनसन्दरित्रधर्मोऽसौ, स्वसैन्यपरिवारितः । प्रस्ताव इति विज्ञाय, चलितो मम सम्मुखम् ॥ ५६६ ॥ तेन चागच्छता-आनन्दितं स्ववीर्येण, कारस्य चारिपुरं सात्त्विकमानसम् । अत्यन्तशुभ्रता नीतो, विवेकवरपर्वतः ॥ ५६७ ॥ शिखरं चाप्रमत्तत्वं, कृतमुञ्चैस्तरां वरम् । उद्बासितं च भूयो त्रेच्छा ऽपि, पुरं जैनं प्रतिष्ठितम् ॥ ५६८ ॥ स च चित्तसमाधानो, मण्डपोऽपि समारितः । सा च निःस्पृहतावेदिः, पुनः सजा विनिर्मिता ॥ ५६९ ॥ तच्चोल्लसत्प्रभाजालं, जीववीर्य वरासनम् । कृतं तेन स्वसैन्यं च, सर्वथा परितोषितम् ॥ ५७० ॥ ततश्चागच्छतस्तस्य, परिपूर्णतयाऽध्वनि । सर्वप्राणेन तल्लग्नं, महामोहमहाबलम् ।। ५७१ ॥ दृष्टं प्रत्यक्षतः सर्व, तच्च युद्धं मयाऽतुलम् । ततः परिसरे रम्ये, चित्तवृत्तेरनीकयोः ॥ ५७२ ॥ ततः सद्बोधयुक्तेन, सम्यग्दर्शनसंयुजा । मयाऽवष्टम्भितो जातः, स राजा जयभाजनम् ॥ ५७३ ॥ ततो विघटिताशेषपरपक्षः खलीलया। अवाप्तजयलक्ष्मीकः, शत्रुराज्यं निपीड्य च ॥ ५७४॥ गृहीत्वाऽन्तःपुरं सर्व, मामकीनं चिरन्तनम् । राजा चारित्रधर्मोऽसौ, मत्समीपमुपागतः ॥ ५७५ ॥ युग्मम् । ते च निर्नष्टसर्वस्वाः, किंचिच्छेषस्वजीविताः । दीनाः क्षीणा दृढं लीना, महामोहादयः स्थिताः ॥५७६॥ चित्तवृत्ताविदं भद्र !, वर्तते मम साम्प्रतम् । यच्छत्रवः प्रलीनास्ते, प्रहृष्टा वरबान्धवाः ॥५७७।। युग्मम् । अन्यच्च-प्रपद्य त्रिजगद्वन्धं, लिङ्गं सर्वज्ञभाषितम् । अधुना पोषणीयोऽसौ, बन्धुवर्गो मयाऽऽन्तरः ।। ५७८ ॥ एवं च वदता तेनानु-| ॥७४५॥ सुन्दरराजेनोपसंहृतं तद्विकृतं तस्कररूपं आविर्भावितं स्वाभाविकं चक्रवर्तिस्वरूपं कृतसङ्केततया निवृत्ता तस्करविडम्बनासामग्री समायात्रा उ. भ. ६३ Jain Education International For Private & Personel Use Only aujainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy